________________ 5 परस्मैधातवः 415-442] योपशं धातुपारायणम् / 423 कूल वरणे कूलति, अनुकूलति / चुकूल / कूलिता / के कर्मणि घञि च कूलम् // 424 शूल रुजायाम् / तालव्यादिः / शूलति / शुशूर / शूलिता / के शूलम् / / 425 तूल निष्कर्षे / निष्कर्षः-अन्तस्थस्य बहिनिःसारणम् / तलति / तुतूल / तूलिता / के तूलम् / उणादौ “नाम्युपान्त्य-" (उ० 609) इति कित् इः, तूलिः शय्वा / स्वार्थे के तूलिका चित्रकरशलाका // - 426 पूल सङ्घाते / पूलति / पुपूल / पूलिता / के घञि वा पूलः / “जातेरयान्त-". 2 / 4 / 54 / इति ड्याम् पूली तृणोच्चयः // ___427 मूल प्रतिष्ठायाम् / मूलति / मुमूल / मूलिता / णिगि उन्मूलयति केशान् / क्ते उन्मूलितः / के घञि वा मूलम् / मूलण रोहणे मूलयति / / 428 फल निष्पत्तौ / निष्पत्तिः-सिद्धिः। फलति / पफाल / "तृ-त्रप-' 4 / 1 / 25 / इत्येत्वे 10 फेलतुः फेलुः / फलिता / क्ते फलितः, फलितवान् / जिफलेत्यस्य तु फुल्लः / अचि फलम् / पलितमिति तु पलेः॥ __429 फुल्ल विकसने / फुल्लति / पुफुल्ल पुफुल्लतुः पुफुल्लुः / फुल्लिता / क्तयोः फुल्लितः फुल्लितवान् / अचि फुल्लम् // 430 चुल्ल हार्वकरणे। मैथुनेच्छाप्रेरितशरीरविकारो हावकरणम् / चुल्लति। चुचुल्ल। चुल्लिता / 15 अचि चुल्लम् / उणादौ "किलि-पिलि-" (उ० 608) इति इः, चुल्लिः // 431 चिल्ल शैथिल्ये च / चकाराद हावकरणे / चिल्लति। चिचिल्ल। चिल्लिष्यति / अचि चिल्लः पटः शिथिल इत्यर्थः / ते चिल्लितः // 432 पेल. 433 फेल 434 शेल. 435 षेल. 436 सेल. 437 वेह्न 438 सल 439 तिल 440 तिल्ल 441 पल्ल 442 वेल्ल गतौ / पेलति। पिपेल / पेलिता / ऋदित्त्वाद् णौ डे अपि- 20 पेलत् / अचि पेलं वृषणः, पेला वस्त्रादिभाजनविशेषः / णके पेलकः / क्ते पेलितम् / उणादौ "वडि-वटि-"(उ० 515) इति अवे पेलवम् // फेल / फेलति / पिफेल। फेलिता। ऋदित्त्वात् अपिफेलत् / क्ते फेलितम् / क्ते सेट्त्वात् "क्तेटो-'" 5 / 3 / 106 / इत्यः, फेला भोजनोज्झितम् // शेल / शेलति / शिशेल / ऋदित्त्वात् अशिशेलत् // षेल। “घः सो-" 2 / 3 / 98 / इति सत्वे सेलति / षोपदेशत्वात् षत्वे सिषेल / ऋदित्त्वात् असिषेलत् // सेल। सेलति / सोपदेशत्वाद् 25 न षत्वम् , सिसेल / ऋदित्त्वात् असिसेलत्। वेह्न / वेहति / अविवेहत् // सल / सलति / ससाल / सोपदेशत्वाद् न षत्वम् , सिसालयिषति, सिसलिषति / घञि भ्रमरैः सल्यते इति सालः // तिल / तेलति / तितेल / तेलिता।। “नाम्युपान्त्य-" 5 / 1 / 54 इति के तिलः / तिलत् स्नेहने 1 आवरणे मु., माधवीयधातुवृत्तौ च पृ० 104 धातुअं० 519 / 2 भावकरणे इति पाणिनीयाः / भावकरणम्-अभिप्रायाविष्कारः-माध० धातु० पृ. 105 धातुअं० 525 / "हावो भावसूचनम्”-पृ. 32 धातुअं० 258 / धा. पा.८