________________ 56 आचार्यश्रीहेमचन्द्रविरचितं [भूधादिगणे फलकः / “कीचक-पेचक-" (उ० 33) इति निपातनात् फलैहकः / “फलेोऽन्तश्च" (उ० 291) इति उने फल्गुनः फल्गुनी / “कमि-चमि-" (उ० 618) इति णित् इः, फालिदलम् / “फलिवल्यमेर्गुः" (उ० 758) फल्गुः / फल निष्पत्तौ फलितः // 415 मील 416 इमील 417 स्मील 418 मील निमेषणे / निमेषणं सङ्कोचः / 5 मीलति / मिमील / णौ के "भ्राज-भास-" 4 / 2 / 36 / इति वा ह्रस्वे अमीमिलत् अमिमीलत् / मीलिता / क्ते मीलितः / क्ते सेट्त्वात् प्रमीला तन्द्रा। अनटि मीलनम् / मिलत् श्लेषणे मिलति / अनटि मेलनम् // श्मील। तालव्यादिः / श्मीलति / श्मीलिता॥ स्मील। दन्त्यादिः / स्मीलति / स्मीलिता // मील / क्ष्मीलति / क्ष्मीलिता // . 419 पील प्रतिष्टम्भे / प्रतिष्टम्भो रोपणम् / पीलति / पिपील / णौ डें अपीपिलत् / पीलिता। 10 "नाम्युपान्त्य-" 5 / 1 / 54 / इति के पीला / अपिपूर्वात् णके अपिपीलकः पिपीलिका, पृषोदरादित्वाद् अपेः पिः॥ 420 णील वर्ण / वर्णोपलक्षितायां क्रियायाम् / यथा-"श्वतं नीलति मरकतकान्त्या" [ ] “पाठे-"२।३।९७। इति णस्य नत्वे नीलति / णोपदेशत्वाद् “अदुरुपसर्गा-' 2 / 3 / 77 / इति णत्वे प्रणीलति / निनील / नीलिता / अचि नीलम् , प्रणीलम् / “नीलात् प्राण्यौषध्योः” 2 / 4 / 27 // इति 16 ड्याम् नीली गौः ओषधिश्च, अन्यत्र नीला शाटी। "क्ताच्च-" 2 / 4 / 28 / इति वा ड्याम् नीली नीला / उणादौ "प्री-कै-पै-नीलेरॉक्” (उ० 761) नीलङ्गुः कृमिः // 421 शील समाधौ / समाधिः ऐकाग्र्यम् / तालव्यादिः / शीलति, परिशीलति / शिशील / णिगि शीलयति / "ज्ञानेच्छा-ऽर्चा-" 5 / 2 / 92 / इति सत्यर्थे क्ते अनुशीलितः / “शीलि-कामि-" 5 / 1 / 73 / इति णे धर्मशीली / घनि शीलम् / उणादौ “कोरदूषा-ऽऽटरूष-" (उ० 561) इति 20 निपातनात् ऊषे शैलूंषः शिलूषः शिलूषापत्यं वा / शीलण उपधारणे शीलयति // 422 कील बन्धे / कीलति / चिकील / कीलिता / णिगि कीलयति / “नाम्युपान्त्य-" 5 / 1 / 54 / इति के कीलः / घनि कील्यतेऽनेनास्माद् वा कीलः, कपि कीलकः / ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इति अः, कीला / क्ते उत्कीलितः / उणादौ "ऋ-कृ-मृ-" (उ०४७५) इति आले कीलालम् / “नाम्युपान्त्य-" (उ० 609) इति किद् इः कीलिः // 1 सर्वाण्यपि अत्र पठितानि उदाहरणानि फल निष्पत्तौ इत्यस्य, अत्र पठनाच्च त्रिफला विशरणे इत्यस्यापि / एवं यत्र यत्र यद्धातुवृत्तौ ये धातवः पठितास्तेषामपि तत्तत्प्रयोगा अभ्यूह्याः॥२फलहकम् संपा. 1 वा० // 3 रोधनमिति पके॥ 4 'नीली' इत्यत्र जातिशब्दादपि जातौ नित्यस्त्रीत्वाद् 'जातेरयान्त-नित्यस्त्रीशद्रात" 24 // 54 // इत्यप्राप्तेऽनेनैव डीः / ये तु नील: पट इत्यर्थान्तरेऽस्त्यर्थस्यापि दर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवेदमुदाहरणम् / जातिशब्दात्तु "जातेरयान्त-" 2 / 4 / 54 / इत्यनेन ली: सिद्ध एव // 5 धर्म शीलयति इति धर्मशीलः, स्त्री चेत् धर्मशीला // 6 "शलेरै चातः” इति (561) उणादिवृत्तौ निर्देशात् अभिधानचिन्तामणिकोषेऽपि (कां०२ श्लो० 242) "शलति वेषान्तरम्" इत्यभिधानाच्च शलतेः इदं रूपम् अन्वया 'शीलेरै-हस्वश्चेतो वा' इति वदेयुः॥