________________ परस्मैधातवः 397-410] स्वोपझं धातुपारायणम् / "गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे ईक्ष्याञ्चकार। मनि “य्वोः-" 4 / 4 / 121 // इति यलुकि ईर्मा / वनि ईर्खा / ईक्ष्यिता। मैत्रायेयति // ईयॆ / ईर्ण्यति / ईञ्चिकार / छात्रायेर्प्यते / अत्र छात्रस्य सम्प्रदानत्वेऽकर्मकलक्षणं "तत्साप्यानाप्यात्-" 3 / 3 / 21 / इति भावे आत्मनेपदम् / ईप्यिता / क्ते सेट्त्वात् ईर्ष्या / “यिः सन्वर्ण्यः" 4 / 1 / 11 / इति येः सनो वा द्वित्वे ईप्यियिषति ईष्यिषिषति / णौ डे येद्वित्वे ऐष्यियत् / उणाद्वौ "लस्जीयिशलेरालुः” (उ० 822) ईर्ष्यालुः // b * 403 शुच्यै 404 चुच्यै अभिषवे / शुच्यै तालव्यादिः। द्रवेण अद्रवाणां परिवासनम् अभिषवः / “स्नानम्" इति चान्द्राः / शुच्यति / शुशुच्य / मनि यलुकि उपान्त्यत्त्य गुणे सुशोच्मा / वनि सुशोच्वा। शुच्यिता / विचि सुशोक् / ऐदित्त्वात् क्तयोर्नेट, शुक्तः शुक्तवान् / तिकि शुक्तिः / तेऽनिटत्वाद् अप्रत्ययाप्राप्तौ "स्त्रियां क्तिः" 5 / 3 / 91 / शुक्तिः॥ चुच्यै। चुच्यति। चुचुच्य / चुच्यिता। ऐदित्त्वात् क्तयोर्नेट चुक्तः चुक्तवान् // 10 अथ रान्ता अष्टौ सेटश्च 405 रसर छद्मगतौ-छद्मप्रकारे / तादिरयम् / त्सरति / तत्सार / “वद-व्रज-'' 4 / 3 / 48 / इति वृद्धौ अत्सारीत् / उणादौ "भृ मृ-तृ-त्सरि-" (उ० 716) इति उः त्सर्यते हस्तेन प्रच्छाद्यते इति त्सरुर्मुष्टिः // "त्सद्म" इत्यपि कौशिकः त्सद्मति // 406 क्मर हुर्छने। कौटिल्ये / क्मरति / चक्मार। "वद-व्रज-" 4 / 3 / 48 / इति वृद्धौ अ- 15 क्मारीत् / अचि क्मरः // 407 अभ्र 408 बभ्र 409 मभ्र गतौ / अभ्रति / “अनातो नश्चा-'' 4 / 1 / 69 / इत्यात्वे ने च आनभ्र। क्ये अभ्यूते, अत्र सरूपान्तस्थाया अभावे "व्यञ्जनात् पञ्चमा " 13 / 47 // इति रो वा लुग् न भवति / अभिता / अचि अभ्रम् // बभ्र / बभ्रति / बनिता // मभ्र / मश्रति / मभ्रिता // 20 410 चर भक्षणे च। चकाराद् गतौ / चरति / “क्रियाव्यतिहारे-" 3 / 3 / 23 / गत्यर्थप्रतिषेधाद् गतौ नात्मनेपदम् , व्यतिचरन्ति ग्रामम् ; भक्षणे तु “क्रियाव्यतिहारेऽगति-" 3 / 3 / 23 // इत्यात्मनेपदम् , व्यतिचरन्ते भक्ष्यम् / “उदश्चर:-"३।३।३१। इत्यात्मनेपदे गेहमुच्चरते, उल्लङ्घयतीत्यर्थः; साप्यादित्येव ध्वनिरुञ्चरति / “समस्तृतीयया" 3 / 3 / 32 / अश्वेन सञ्चरते / “वद-व्रज-" 4 / 3 / 48 / सौ पदान्तसंयोगादित्वात् “संयोगस्यादौ स्कोलक" 2 / 1188 // इति कलुकि “धुटस्तृतीयः” 2 / 1 / 76 // इति षस्य इत्वे प्रथमत्वे च सूः इति केचित् // 1 अवयवानां शिथिलीकरणम् सुरायाः सन्धानं वाऽभिषवः, तथा सोममभिषुणोतीत्यादौ दर्शनात्, सुराप्रकरणे च 'सन्धानं स्यादभिषवः' इति अमरोक्तेः / 'स्नानम्' इत्यपि चान्द्राः, 'भवेदभिषवः स्नाने मद्यसन्धानयो।' इति मेदिनीकोषे च // 2 'रते संपा१ // 3 ऊर्ध्व गच्छति इत्यर्थः // 4 धातोस्तृतीयया योगाभावात् चरतेः तृतीयान्तेन योगे सति इति व्याख्येयम् / तृतीययेति किम् ? "उभौ लोको सञ्चरसि इमं चामुं च देवल !" नन्वत्र विद्यया तपसा वेत्यादिह तृतीयान्तं गम्यते तथापि सञ्चरसि इत्यत्र कथं नात्मनेपदम् ? उच्यते, तृतीययेति सहयोगे