________________ परस्मैवातवः 387-396] स्वोपझं धातुपारायणम् / इटि स्तमिता, स्तमितुम् / णौ स्तमयति / षोपदेशत्वात् तिष्टमयिषति / अचि स्तमः / स्तन-धनस्वन-स्यमू-पम-टमान् षडप्यदन्तान् सभ्या अभ्युपागमन् // 391 अम शब्द-भक्त्योः / भक्तिर्भजनम् / अमति / आम आमतुः आमुः। "अमोऽकम्यमि-" 4 / 2 / 26 / इत्यत्र अमो वर्जनाद् णिगि हूस्वाभावे आमयति / "मोऽकमि-" 4 / 3 / 55/ इति गिति कृतितृद्धिनिषेधाद् णके अमकः / धनि अमः / आम इति त्वापूर्वस्य घञि, अमण् / रोगे इत्यस्य वा णिचि अलि / सेट्त्वात् अमिता, अमितुम् / "श्वस-जप-" 4 / 4 / 75 / इति क्तयोर्वा नेट् , अभ्यान्तः अभ्यमितः / “जि-इण्-दृ-क्षि-"५।२।७२। इति इनि अभ्यमनशीलो अभ्यमी। उणादौ "दम्यमि-" (उ० 200) इति ते अन्तः / “चि-जि-शु-" (उ० 392) इति रे दीर्घ च आम्रः। "हु-या-मा-" (उ० 451) इति त्रे अन्त्रम् / “वृग्-नक्षि-" (उ० 456) इति अत्रे अमत्रम् / "बन्धि-वहि-" (उ० 459) इति इत्रे अमित्रः / “पा-दा-वमि-" (उ० 527) इति शे अंशः। 10 "मा-वा-वद्यमि-" (उ० 564) इति से अंसः / “अमेर्भ-हौ चान्तौ" (उ० 962) इति असि अम्भः, अंहः // ___392 अम 393 द्रम 394 हम्म 395 मीमृ 396 गम्लं गतौ / अमिरुदाहृत एव / अर्थभेदार्थ तु पुनः पाठः॥ द्रम। द्रमति / दद्राम / “व्यञ्जनादे:-" 4 / 3 / 47 // इति वा वृद्धेः “न श्वि-जागृ-' 4 / 3 / 49 / इति प्रतिषेधात् अद्रमीत् / "द्रम-क्रमो यङः" 5 / 2 / 46 / 15 इति अने दन्द्रमणशीलो दन्द्रमणः / इटि द्रमिता, द्रमितुम् / उणादौ "कल्यनि-" (उ०४८१) इति इले द्रमिलः // हम्म / "हम्मतिः सुराष्ट्रेषु" [आ०१, 5] इति भाष्याद् द्विवद्धो मकारः / हम्मति। जहम्म / इटि हम्मिता, हम्मितुम् / यङि जहम्म्यते, अत्र "मुरतोऽनुनासिकस्य" 4 / 151 / इत्यत्र अनुनासिकजातिपरिग्रहादतोऽनुनासिकाद् नत्वे पूर्वस्य मुरन्तः / केचित्तु म्वागमं नेच्छन्ति, तन्मते जाहम्म्यते // मीमृ / मीमति / मिमीम / इटि मीमिता, मीमितुम् / यङि मेमीम्यते / 20 ऋदित्त्वाद् णौ के "उपान्त्यस्य–' 4 / 2 / 35 / इति ह्रस्वाभावे अमिमीमत् / अयं शब्देऽपीत्येके / / 396 गम्लं / “गम्-इषद्-" 4 / 2 / 106 / इति छे गच्छति / “समो गमृच्छि-" 3 / 3184 / इत्यात्मनेपदे सङ्गच्छते'। जगाम / “गम-हन-” 4 / 2 / 44 / इत्युपान्त्यलुकि जग्मतुः / लदित्त्वाद "लदिद्-द्युतादि-"३।४।६४। इत्यङि अगमत् / अनुस्वारेत्त्वाद् नेट् गन्ता, गन्तुम् / “नमोऽनात्मने" 4 / 4 / 51 / इतीटि गमिप्यति / "स्कृ-असू-वृ-' 4 / 4 / 81 / इति परोक्षायामिटि जन्मिव जम्मिम; 25 "सृज़ि-दृशि-" 4 / 4 / 78 / इति थवि वा नेटि जगन्थ, जगमिथ / “गम-हन-" 4 / 2 / 44 / इति कसौ वेटि जन्मिवान् जगन्वान् / “गमो वा" ४।३।३७इति सिजा-ऽऽशिषोरात्मने वा कित्त्वम् , समगत, अत्रै “यमि-रमि-" 4 / 2 / 55 / इत्यन्तलोपः; समगस्त, संगसीष्ट संगंसीष्ट / गत्यर्थाद्वा कर्तरि 1 कर्मणि असति इदम् / कर्मणि सति तु सङ्गच्छति सुहृदम् // 2 थवि वेटि ज' संपा१ वा० // 3 "धुहस्वा-" 4 / 3 / 70 / इति सिज्लुक् च // 4 “गत्यर्थाऽकर्मक-पिव-भुजेः" 5 / 1 / 11 / इति सूत्रेण //