________________ 50 आचार्यश्रीहेमचन्द्रविरचितं [भूदिगणे णशीलः प्रयामी, आयामी। “सं-नि-व्युपाद्यमः" 5 / 3 / 25 / इति वा अलि संयमः संयामः, नियमः नियामः, वियमः वियामः, उपयमः उपयामः / “नवा कण-" 5 / 3 / 48 / इत्यनुपसर्गाद्वा अलि यमः यामः / क्तौ यतिः / यपि “वा मः" 4 / 2 / 57 / इति वा अन्तलोपे प्रयम्य प्रयत्य / उदित्त्वात् क्त्वि वेटि यत्वा यमित्वा / ऊदित्त्वं नेच्छन्त्येके / “तिक्कृतौ नाम्नि" 5 / 1 / 71 / इत्यकटि यमकम् / उणादौ “यम्यजि-' (उ० 288) इति उने यमुना / “हु-या-मा-" (उ० 451) इति त्रे यन्त्रम् / "मृदि-कन्दि-" (उ० 465) इति अले यमलम् // 387 स्यम् शब्दे / स्यमति / "ज़-भ्रम-" 4 / 1 / 26 / इति वैत्वे स्थेमतुः सस्यमतुः, स्येमुः सस्यमुः / “व्ये-स्यमोर्यङि" 4 / 1 / 85 / इति वृति सेसिम्यते / “अमोऽकम्यमि-चमः" 4 / 2 / 26 / इति णौ ह्रस्वे स्यमयति / इटि स्यमिता, स्यमितुम् / ऊदित्त्वात् क्त्वि पेट् , स्यान्त्वा स्यमित्वा / 10 वेट्त्वात् तयोर्नेट् , स्यान्तः स्यान्तवान् / उणादौ "स्यमेः सीम् च" (उ० 44) इति इके सीमिको वृक्षः / “स्यमि-कषि-" (उ०४६) इति ईके स्यमीको वृक्षः; स्यमेः सिमादेशे च सिमीकः सूक्ष्मकृमिः / / 388 णमं प्रहत्वे / प्रहृत्वं नम्रत्वम् / “पाठे-" 2 / 3 / 97 / इति णस्य नत्वे नमति / णोपदेशत्वाद् "अदुरुपसर्गा-" 2 / 3177 / इति णत्वे प्रणमति / कर्मकर्तरि “एकधातौ-" 3 / 4 / 86 / इत्यात्मनेपदे नमते दण्डः स्वयमेव, अनंस्त दण्डैः स्वयमेव, अत्र “भूषार्थ-" 3 / 4 / 93 / इति प्रति15 षेधात् क्यो भिश्च न भवति / कर्मणि क्ये नम्यते। ननाम नेमतः नेमुः / “यमि-रमि-नम्यातः सो ऽन्तश्च" 4 / 4 / 86 / अनंसीत् अनंसिष्टाम् / “ज्वल-बल-" 4 / 2 / 32 / इत्यनुपसर्गस्य णौ वा हस्वे नमयति नामयति; सोपसर्गस्य तु "अनोऽकम्यमि-" 4 / 2 / 26 / इति नित्यं हस्वे प्रणमयति, उन्नमयति / यङि नन्नम्यते / यङ्लुपि नन्नमीति नन्नन्ति / अनुस्वारेत्त्वाद् नेट् , नन्ता नन्तुम् / क्तयोः "यमि रमि-" 4 / 2 / 55 / इत्यन्तलोपे नतः नतवान् / “आसु-यु-वपि-" 5 / 1 / 20 / इत्यापूर्वाद् 20 घ्यणि आनाभ्यः / “रम्यजस-" 5 / 2 / 79 / इति रे नमनशीलो नम्रः / उणादौ "नमे क् च" (उ० 720) इति उः, नाकुर्ऋषिः। “नमेः प् च" (उ० 862) इति तृः, नप्ता / “सात्मन्नास्मन्-" (उ० 916) इति निपातनात् मनि नाम / “अस्” (उ० 952) इति असि नमः॥ 389 पम 390 ष्टम वैक्लव्ये / क्लव्यं कातरत्वम् / ": सो-' 2 / 3 / 98 / इति षस्य सत्वे समति / ससाम / इटि समिता, समितुम् / “अमोऽकम्यमि-" 4 / 2 / 26 / इति णिगि हस्ते सुमयति / 25 अचि समः, “निर्दुः-सु-वेः-" 2 / 3 / 56 / इति षत्वे विषमः / षोपदेशत्वात् "णि-स्तोरेवा-"२।३।३७। इति षत्वे सिषमयिषति // टम / “षः सो-" 2 / 3 / 98 / इति षस्य सत्वे स्तमति / तस्ताम / 1 स्यमीकं जलम् , . स्यमीका कृमिजातिः // 2 केचित् स्यमेः सिम् इति हस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति तन्मतसङ्ग्रहायेदम् // 3 ननु 'नम्' अकर्मकः तत् कथमस्य कर्मस्थक्रियत्वम् ? उच्यते, अन्तर्भूतण्यर्थत्वेन सकर्मकत्वाद् दण्डस्य कर्मकर्तृत्वम् / यत्र तु ण्यर्थो नास्ति तत्र कर्तृत्व, यथा नमति शाखा पातेन // 4 आनमेनेच्छन्त्येके //