________________ परस्मैधातवः 385-386] स्वोपझं धातुपारायणम् / चङ्क्रमणः / “शक-धृष-" 5 / 4 / 90 / इति तुमि प्रक्रमते भोक्तुम् , उपक्रमते भोक्तुम् / उदित्त्वात् क्त्वि वेट् , क्रन्त्वा क्रान्त्या, अत्र "क्रमः क्त्वि वा" 4 / 1 / 106 / इति वा दीर्घः; पक्षे क्रमित्वा / वेट्त्वात् क्तयोर्नेट् , कान्तः क्रान्तवान् / उणादौ "क्रमेः कृम् च वा” (उ० 53) इति उके कृमुको बन्धनः, क्रमुकः पूगतरुः / "क्रमि-तमि-स्तम्भेरिच्च नमेस्तु वा” (उ० 613) इति इः, क्रिमिः / "क्रमि-गमि-क्षमेस्तुमाच्चातः" (उ० 942) क्रान्तुं गमनम् तुमर्थश्च // - 386 यमं उपरमे / उपरमो निवृत्तिः / “गमिषद्यमश्छः" 4 / 2 / 106 / यच्छति / ययाम / अनुस्वारेत्त्वाद् नेट् , यन्ता / “यमोऽपरिवेषणे--"४।२।२९। इति णौ ह्रस्वे यमयति केशान् , परिवेषणे तु यामयत्यतिथीन् / “यमः स्वीकारे" 3 / 3 / 59 / इति उपात् आत्मनेपदम् , उपयच्छते कन्याम्। "आडो यम-हनः स्वेऽङ्गे च" 3 / 3 / 86 / आयच्छते, आयर्च्छते पाणिम् / “समुदाङो यमेरग्रन्थे" 3 / 3 / 98 / इति फलवत्कर्तर्यात्मनेपदम् , संयच्छते उद्यच्छते आयच्छते रज्जुम् , "ईगितः" 3 / 3 / 95 / इत्या- 10 त्मनेपदापवादस्य "अणिगि प्राणिकर्तृका-" 3 / 3 / 107) इति परस्मैपदस्यापवादः। “परिमुहाऽऽयमा-" 3 / 3 / 94 / इति फलवत्कर्तर्यात्मनेपदम् , आयामयते सर्पम् / “यमः सूर्चने" 4 / 3 / 39 / इति सिचः कित्त्वे उदायत उदायसाताम् / “वा स्वीकृतौ” 4 / 3 / 40 / उपायत उपायंस्त कन्याम् / "यमि-रमि-नम्यातः सोऽन्तश्च" 4 / 4 / 86 / अयंसीत् अयंसिष्टाम् / यङि यंयम्यते / यङ्लुपि यंयमीति / "यम-मद-गदोऽनुपसर्गाद्" 5 / 1 / 30 / इति ये यम्यम् ; उपसर्गात्तु घ्यण् एव आयाम्यम प्रयाम्यम् / 15 'वाचंयमो व्रते" 5 / 1 / 115 / इति निपातनात् खे वाचंयमो व्रती, अन्यत्र अणि वाग्यामः / क्तयोः “यरमि-" 4 / 2 / 55 / इत्यन्तलोपे यतः यतवान् / “प्राच्च यम-यसः" 5 / 2 / 52 / इति घिनणि प्रयम 1 कुटिलं कामतीत्येवंशील: चक्रमणः॥ 2 परिवेषणमिह भोजनविषयि परिवेषणं सूर्यादिवेष्टनं च गाले, तद्भिन्न अपरिवेष्टनम् // 3 परिवेषणक्रियया तान् व्याप्नोतीत्यर्थः॥ 4 परिणयतीत्यर्थः, अत्र "उपाद्यमः स्वकरणे" (पा० 1 / 3 / 56 / ) इति सूत्रस्य भाष्ये 'इह कस्माद् न भवति स्वं शाटकान्तमुपयच्छति ? अस्वं यदा स्वं करोति तदा भवितव्यमेव।' इदं भाष्योक्तम्-अस्वस्य स्वत्वेन करणं वृत्तिकार-शिवस्वामिभ्यां प्रसिद्धिवशात् पाणिग्रहणविषयं संस्कृतम् / तथा च काशिकायाम-१३१५६। 'पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते न स्वकरणमात्रमिति / माधवीयधातुवृत्तावपि “सामान्येनापि “वार्तिककारेण पाणिग्रहणविशिष्टं स्वकरणं शिवस्वामि-जयादित्यावूचतुः, प्रसिद्धत्वात् 'उपायंस्त नतीः' इत्यादिप्रयोगस्तु साधर्म्यात् / पाणिग्रहणविशिष्टं स्वकरणमिति मते वेश्यामुपयच्छते इत्यादि न भवति / भाष्यकारेण तु स्वकरणमात्रे विशिष्टे स्थित इत्युक्तम्। भट्टिकाव्ये च 'शस्त्राण्युपायंस्त विजित्वराणि'इति सामान्येन प्रयुज्यते"-पृ० 196 धातु-९६४। 5 दीर्घो भवति व्याप्रियत इति वाऽर्थः // 6 दीर्धीकरोतीत्यर्थः / कथं तर्हि आयच्छति पादौ देवदत्तस्य इत्यत्र स्वाङ्गत्वात् पादयोः परस्मैपदम् ? उच्यते, अत्र "अविकारोऽवं मूत, प्राणिस्पं स्वाजमुच्यते।" इत्यादिलक्षणस्य पारिभाषिकस्वाङ्गस्य प्रतिपत्तिर्मा भूदिति सूत्रेऽसमस्तनिर्देशः // 7 ननु "आङो यम-हन:-" 3386 / इत्यनेनैव आत्मनेपदे सिद्धे किमर्थ इह आङ्ग्रहणम् ? इहालो प्रहणमस्वाङ्गकर्मकार्थम् // 8 यदा तु कर्जभिप्रायत्वं पदान्तरेण प्रतीयते तदा “पदान्तरगम्ये वा" 3 / 3399 / इति स्वान् व्रीहीन संयच्छतीत्यपि भवति // 9 कश्चिद् 'यमः परिवेषणे इति पठति तन्मताभिप्रायेण न हस्वः, स्वमते तु भवत्येव आयमयते इत्यादि / 10 परेण प्रच्छाद्यमानस्य दोषस्य आविष्करणं सूचनम् // 11 अत्रापि उद्वाहे एवेतीच्छन्त्येके // 12 वाचं यच्छति नियमयति वेति विग्रहः // धा० पा०७