________________ 48 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 385 क्रम पादविक्षेपे / पदन्यासे / “क्रमो दीर्घः–'४।२।१०९। इति दीर्धे कामति / चक्राम / "क्रमोऽनुपसर्गाद" 3 / 3 / 47 / इति वा आत्मनेपदम् , क्रमते कामति / "वृत्ति-सर्ग-तीयने"३।३।४८। ऋक्षु अस्य क्रमते बुद्धिः-न प्रतिहन्यते इत्यर्थः; युद्धाय क्रमते-उत्सहते इत्यर्थः; प्राज्ञे शास्त्राणि क्रमन्ते-स्फीतीभवन्तीत्यर्थः / “परोपात्" 3 / 3 / 49 / पराक्रमते, उपक्रमते / “वेः स्वार्थे" 3 / 3 / 5 50 / साधु विक्रमते हंसः / “प्रोपादारम्भे' 3 / 3 / 51 / प्रक्रमते उपक्रमते भोक्तुम् / “आङो ज्यो तिरुद्मे" 3 / 3 / 52 / आक्रमते नमोऽर्कः / इटि क्रमिष्यति / "क्रमः" 4 / 4 / 53 / इत्यनात्मनेपदे इनियमादात्मनेपदे नेद, प्रक्रंसीष्ट, उपक्रंसीष्ट / “तुः" 4 / 4 / 54 / इति तृप्रत्यये अनात्मनेपदविषयादिनियमादात्मनेपदविषयाद् नेट् , प्रक्रन्ता, उपक्रन्ता- / “गत्यर्थात् कुटिले” 3 / 4 / 11 / इति यङि चक्रम्यते / "व्यञ्जनाद्-" 5 / 3 / 132 / घञि कामन्त्यनेनेति क्रमः, "मोऽकमि-" 4 / 3 / 55 / 10 इति वृद्धेरभावः / भावे घजि क्रमः, प्रक्रमः, उपक्रमः / "द्रम-क्रमो यङः" 5 / 2 / 46 / इति अने पदविन्यासे संपा१ वा. / पादन्यासे इति तु प्र. मु० / / 2 ननु अनुपसर्गात् इति कोऽयं समासः? तत्पुरुषो बहुव्रीहिः वा? बहुव्रीहिरेवायम् , यदुक्तं बृहद्वत्तौ-अविद्यमानोपसर्गात् क्रमेरिति / लघुन्यासकारैरपि अभिहितम् अविद्यमानोपसर्गादिति बहुव्रीहिरयम् / यदि पुनर्न उपसर्गोऽनुपसर्ग इति तत्पुरुषो विधीयते तदा उपसर्गादन्योऽनुपसर्गस्तस्मात् परो यः क्रमिस्तत इति प्रतिपत्तौ केवलात् न स्यात्, प्रसन्याश्रयणे तु असमर्थसमासः कष्टः स्यादिति // 3 वृत्तिः अप्रतिबन्धः आत्मयापनं वा सर्गः उत्साहः तात्पर्य वा, सर्गेणातिसर्गस्य लक्षणादनुज्ञा वा, तायनं स्फीतता संतानः पालनं वा // 4 आत्मानं यापयति ॥५तत्परोऽनुज्ञातो वा इत्यर्थः / / 6 “वृत्ति-सर्ग-तायने" 33148 / इत्येव सिद्धे “परोपात्" 3 / 3 / 49 / इत्यारम्भान्नियमाद्वाऽन्योपसर्गाद् न भवति, तेन संकामतीति परस्मैपदमेव, णौ क्रमयति अचिक्रमत् इत्यादि / ननु तर्हि कथं सक्रामयतीति ? सङ्क्रामन्तं करोतीति शत्रन्ताणिचि भविष्यति। “अन्ये तु "मिता हस्वः” (पा० 6 / 4 / 921) इत्यत्र वा अनुवर्त्तयन्ति, सा च व्यवस्थितविभाषा, तेन सङ्कामयतीत्येवमादि सिद्धं भवति इत्युक्तः माधवीयधातुवृत्तौ-पृ० 96 धातु- 469 सच निन्दित इति तत्रैवोक्तम् , सङ्क्रमयतीति अविगीत इति कथनेन “रसातले सङ्क्रमिता" इत्यादिप्रयोगोऽप्यनुकूल: इति॥७स्वार्थः पादविक्षेपः, तेन अश्वेन विक्रामति इत्यत्र न भवति। नन्वत्र पादविक्षेप एव ऋमिर्वर्तते, स च कर्तकृत : करणकृतो वा भवतु, सत्यम् , “गौण-मुख्ययोः" इति न्यायात् सर्वकारकप्रधानभूतः-कर्तकृत एव गृह्यते अत्र तु करणकृतः पादविक्षेप इति न भवति / विक्रामति राजा उत्सहते इत्यर्थः, अत्र "परोपाद" 3 / 3 / 49 / इत्येवेति नियमा. "वृत्ति-सर्ग" 3 // 3 // 48 // इत्यादिनाऽपि न भवति // 8 सुष्ठ पदानि विक्षिपतीत्यर्थः। अश्वादीनां गतिविशेषोऽपि क्रम इति // 9 आरम्भ आदिकर्म / अङ्गीकरणं चेत्यन्ये। एके तु स्वार्थविषय एवारम्मे मन्यन्ते, तेनोपक्रमते प्रक्रमते-पादाभ्यां गन्तुमारभते इत्यर्थ इत्यत्रैव भवति / स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति उपकामति भोक्तुमित्यत्र न भवति, इति बृहदवृत्तौ // 10 ज्योतिषां चन्द्रादीनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् // 11 उदयते इत्यर्थः, दिवमाक्रममाणेन केतुना, अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जनव्याप्तिवचनः क्रमिः, केतुर्ग्रहः / ज्योतिरुद्गम इति वचनात् आक्रामति धूमो हर्म्यतलम्-उद्गच्छन् व्याप्नोतीत्यर्थः, उद्गमनपूर्विकायां व्याप्तौ अत्रापि क्रमिरिति द्वितीया। कैयटस्तु उद्गमने वर्तमानोऽयमकर्मकस्तेन आकामति धूमो हर्म्यतलात् इति पन्यते-मा० धावृ. पृ० 96 / 12 प्रक्रन्ता, उपक्रन्ता इत्यत्र "प्रोपादारम्भे-"३।३।५१। इत्यात्मनेपदम् / अनात्मनेविषयत्वे तु क्रमिता इत्यादि, सायणस्तु 'अनुपसर्गात् क्रमेः कन्ता क्रमिता इत्युभयमपि भवति, "अनुपसर्गाद्वा" (पा. 1 / 3 / 43) इति विकल्पेनात्मनेपदविषयादित्येके' इति पठति च / क्रमितेति, "क्रमोऽनुपसर्गात्" 33147 // इति विकल्पेनात्मनेपदविषयत्वात् कन्तेत्यपि, "तुः" 4 / 4 / 54 / इति सूत्रस्य न्यासे कनकप्रभसरयोऽपि //