________________ परस्मैधातवः 351-384] स्वोपझं धातुपारायणम् / 47 377 शुम्भ भाषणे च / चकारात् हिंसायाम् / भासने चेत्यन्ये / तालव्यादिः। शुम्भति / शुशुम्भ / के सेट्त्वात् "क्तेटो-" 5 / 3 / 106 // इति अः शुम्भा शोभेत्यर्थः / शुभ शुम्भत् शोभार्थे शुभति / षोपदेशोऽयमिति गुप्तः, सुम्भति / कुपूर्वादचि कुसुम्भः / लक्ष्यं चै / ___ "सावष्टम्भनिशुम्भसुम्भन०" [ ] इति॥ 378 य 379 जभ मैथुने / मिथुनस्य कर्मणि भावे वा / आद्योऽन्तस्थादिरन्यश्च चव- 5 र्गादिः / यभति / "क्रियाव्यतिहारे-" 3 / 3 / 23 / इत्यात्मनेपदे व्यतियभते / क्ये यभ्यते / ययाभ येभतुः येभुः / अनुस्वारेत्त्वाद् नेट्, यब्धा, यब्धुम् / घनि याभः / “शकि-तकि-" 5 / 1 / 29 / इति ये यभ्यम् // जम / “जभः स्वरे" 4 / 4 / 100 / इति ने जम्भति / जजम्भ / इटि जम्भिता, जम्भितुम् / णके जम्भकः / घनि जम्भो वर्तते / “शकि-तकि-" 5 / 1 / 29 / इति ये जभ्यम् / "ग-लुप-" 3 / 4 / 12 / इति गर्वार्थाद् यङि "जप-जभ-" 4 / 1 / 52 / इति पूर्वस्य म्वागमे च 10 जञ्जभ्यते / क्तयोरिटि नागमे नलुकि च जभितः जभितवान् / जभैङ् गात्रविनामे जम्भते // अथ मान्ताः सप्तदश यम-णमं-गम्लंघर्जाः सेटश्च३८०. चमू 381 छम् 382 जमू 383 झम् 384 जिमू अदने / पञ्चाप्यूदितः / “ष्ठिवूक्लम्बा-" 4 / 2 / 110 / इति दीर्घत्वे आचामति / आपूर्वस्यैव दीर्घत्वविधानात् चमति, उच्चमति, विचमति / आचचाम / “अमोऽकम्पमि-" 4 / 2 / 26 / इति णौ हूस्वाभावे चामयति, आचामयति / 15 आसु-यु-वपि-" 5 / 1 / 20 / इति ध्यणि आचाम्यम् / “मोऽकमि-".४।३।५५/ इत्यत्र आचमो जनाद् वृद्धिनिषेधाभावे णके आचामकः / घनि आचामः / ऊदित्त्वात् क्त्वि वेट्, चान्त्वा चमित्वा / वेट्त्वात् क्तयोर्नेट्, आचान्तः आचान्तवान् / उणादौ "ऋच्छि-चटि-” (उ० 397) इति अरे चमरः / प्रज्ञाद्यणि चामरः / "तप्यणि-" (उ० 569) इति असे चमसः सोमपात्रम् , गौरादित्वाद् ड्याम् चमसी मुद्गादिभिंतकृता / “कृषि-चमि-" (उ० 829) इति ऊः चमूः। छम् / 20 छमति / चछाम / “अमोऽकम्यमि-' 4 / 2 / 26 / इति णौ हुम्वे छमयति / ऊदित्त्वात् छमित्वा छान्त्वा // जमू / जमति / जजाम / णौ ह्रस्वे जमयति / ऊदित्त्वात् जमित्वा, जान्त्वा // झम् / झमति / जझाम / झमयति / झमित्वा झान्त्वा / उणादौ "झमेझः" (उ० 137) झञ्झा // जिम्। जेमति / अनटि जेमनम् / घजि जेमः / ऊदित्त्वात् जीन्त्वा, पक्षे "वौ व्यञ्जनादेः-” 4 / 3 / 25 / इति वा कित्त्वे जिमित्वा जेमित्वा // 25 1 हिंसायामेव इति देव-मैत्रेयादयः॥२ दुर्ग-धनपाल-शाकटायनाः॥ 3 "गुप्तस्तु ‘सावष्टम्भनिषुम्भसम्भ्रमनमभूगोल' इत्यादिदर्शनाद् मूर्धन्यादित्वमाह"-मा०धा०व०पृ.८८ धातु-४३०॥४यभ विपरीतमैथुने-विपरीतानुष्ठान इत्यर्थः इति मैत्रेयः, पुरुषकारे तु विपरीतमैथुने इति -विपरीतयभने इति"-मा०धा०३०पृ० 191 धातु-९६१ / जमं च न पठन्ति पाणिनीया इति // 5 उपसर्गरहितस्य " मोऽकमि-यमि-रमि-नमि-गमि-चम-आचमः" 4 // 3 // 55 // इति वृद्धिप्रतिषेधे ध्यणि ये च न विशेष इति सोपसर्गस्योदाहरणम् // 6 चामरम् वा० संपा१प्र०॥ 7 भित्तम्-शकलम्-खण्डम्। "चमसी पिष्टवतिः'-अभिधान०३,६४ "मुद्गादीनां पिष्टस्य वर्तिः"-अभि० 0 /