________________ 46 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे सप्तदशाप्येते गत्यर्थाः। फान्तास्त्रयोऽपि हिंसायामिति कण्वः / वर्फति // [रफ।] रफति // रफु / उदित्त्वाद् ने रम्फति // अथ बान्ता अष्टादश सेटश्च अर्ब / अर्बति / “अनातो-" 4 / 1 / 69 / इत्यात्वे ने च आनर्ब // कर्व। कवाते। उणादौ 5 "दिव्यवि-" (उ० 142) इति अटे कर्बर्ट क्षुद्रपत्तनम् / “वाश्यसि-” (उ० 423) इति उरे कर्बुरः // खर्व / खर्बति / अचि खर्बः // गई / गर्बति / घञि गर्बः // चर्ब / चर्बति / पनि चर्बः। अनटि चर्बणम् // तब / तर्बति // नर्ब / नर्बति // पर्व / पर्वति // बर्ब / ओष्ठ्यादिः / बर्बति / उणादौ "ऋच्छि-चटि-" (उ० 397) इति अरे बर्बरः, बर्बरी कुञ्चिताः केशाः॥ शर्ब। तालव्यादिः / शर्बति / पर्व। षोपदेशः। “पः सो-" 2 / 3 / 98 / इति षस्य सत्वे 10 सर्बति / षोपदेशत्वाद् "णिस्तोरेवा-" 2 / 3 / 37 // इति षत्वे सिपर्वयिषति // सर्व / सर्वति / सोप-- देशत्वात् षत्वाभावे सिसर्बयिषति // रिबु / उदित्त्वाद् ने रिम्बति // रखु / उदित्त्वाद् ने रम्बति / अचि रम्बः, करम्बः / ते करम्वितः / घर्बत्यपि केचित् पठन्ति, स पुनरनार्षत्वादुपेक्षितः / अ.त्यादौ रेफस्थाने नकारं कौशिका मन्यन्ते // 368 कुबु आच्छादने / उदित्त्वाद् ने कुम्बति / “भीषि-भूषि-" 5 / 3 / 109 / इति 15 णौ अङि कुम्बा / कुबुण् आच्छादने कुम्बयति // 369 लुबु 370 तुबु अर्दने। उदित्त्वाद् ने लुम्बति / उणादौ ण्यन्तात् "स्वरेभ्य इ:-" (उ० 606) इति इः, लुम्बिः // तुबु / उदित्त्वाद् ने तुम्बति / अचि गौरादित्वाद् ड्याम् तुम्बी / लुबु तुबुण अर्दने, लुम्बयति, तुम्बयति // 371 चुबु वक्त्रसंयोगे / वक्त्रेण सम्बन्धः। “नमस्तुङ्गशिरश्चुम्बि-" [हर्षचरिते] इत्युपचारात् / 20 उदित्त्वाद् ने चुम्बति / चुचुम्ब / चुम्बितुम् // अथ भान्ता अष्टौ यभंवर्जाः सेटश्च-- 372 सृभू 373 सृम्भू 374 त्रिभू 375 षिम्भू 376 भर्भ हिंसायाम् / आधास्त्रयो दन्त्याद्याश्चतुर्थः षोपदेशः / सर्भति / सिसर्भयिषति / ऊदित्त्वात् क्वि वेट्, सृब्ध्वा सर्भित्वा॥ सुम्भ। सृम्भति / सिसृम्भयिषति / ऊदित्त्वात् सृब्ध्वा सृम्भित्वा // त्रिभू / सेभति / 25 सिनेम सिलिभतुः सित्रिभुः। सिनेमयिषति / ऊदित्त्वात् सिब्ध्वा, पक्षे “वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति इटि वा कित्त्वे सिभित्वा सेभित्वा। सनि सिसिभिषति सिभिषति / क्त्वि वेट्त्वात् क्तयोर्नेट् सिब्धः सिब्धवान् // पिम्भू / “षः सो-' 2 / 3 / 98 / इति षस्य सत्वे सिम्भति / षोपदेशत्वाद् "नाम्यन्तस्था-" 2 / 3 / 15 / इति षत्वे सिषिम्भ / ऊदित्त्वात् सिब्ध्वा सिम्भित्वा / वेट्त्वात् क्तयोर्नेट्, सिन्धः सिब्धवान् // भर्भ / भर्भति / बभर्भ / इटि भर्भिता //