________________ परस्मैधातवः 335-367] स्वोपझं धातुपारायणम् / अश्वः / “पप्यशौभ्यां तन्” (उ० 903) सप्त घटाः / चान्तोऽयमिति चन्द्रः। सचति / “पलिसचेरिवः” (उ० 522) सचिवः / पचि सेचने सचते // ___341 सृप्लं गतौ / दन्त्यादिः। सर्पति / क्ये सृप्यते / ससर्प ससृपतुः ससृपुः / लदित्त्वादङि असृपत् / अनुस्वारेत्त्वाद् नेट् , सप्ता, सप्तुम् / “लिहादिभ्यः" 5 / 1 / 50 / इत्यचि सर्पः। कुटिलं सर्पतीति “गत्यर्थात् कुटिले' 3 / 4 / 11 / इति यङि अचि सरीसृपः, षोपदेशाभावादत्र न षत्वम् / 5 * 'ऋदुपान्त्याद्-" 5 / 1 / 41 / इति क्यपि सृप्यम् / भावे घनि संसां विपादिका, अभिधानादस्य स्त्रीत्वम् / उणादौ "ऋज्यजि-सच्चि-" (उ० 388) इति किति रे सृषा काचिन्नदी / “रुच्यर्चि-शुचि-" (उ० 989) इति इसि सर्पिः / / 342 चुप भन्दायाम् / गतावित्यनुवृत्तेर्मन्दायां गतौ। चोपति-किचिच्चलतीत्यर्थः / चुचोप / अनटि चोपनम् / इटि चोपिता, चोपिप्यति / उणादौ "क्षु-चुपि-"(उ० 301) इति कित् पः, चुप्पं 10 मन्दगमनम् / “ज्यजि-" (उ० 388) इति किति रे चुप्रो वायुः // 343 तुप 344 तुम्प 345 त्रुप 346 त्रुम्प 347 तुफ 348 तुम्फ 342 त्रुफ 350 त्रुम्फ हिंसायाम् / तोपति / तुतोप। "वौ व्यञ्जनादे:-" 4 / 3 / 25 / इति क्त्वा-सनोरिटि वा कित्त्वे तुपित्वा तोपित्वा, तुतुपिषति तुतोपिषति “उति शवद्भियः-" 4 / 3 / 26 / इति क्तयोर्वा कित्त्वे तुपितम् तोपितमनेन // तुम्प / तुम्पति। तुतुम्प / “प्रात्तुम्पतेर्गवि" 15 4 / 4 / 97 / इति सटि प्रस्तुम्पति गां वत्सः / येषां तु "प्रात्तुम्पतेः कपि" इति सूत्रं तेषां कपि समासान्ते सटि प्रस्तुम्पकः / क्तयोः तुपितः तुपितवान् / भावे क्ते तुपितम् , अत्र कित्त्वनिमित्तत्वादुपान्त्यत्वस्य सन्निपातलक्षणत्वेन "उति शवद्भियः” 4 / 3 / 26 / इति न कित्त्वविघातकत्वम् तथा च न गुणः // त्रुप त्रोपति / तुत्रोप / त्रुपित्वा त्रोपित्वा / तुत्रुपिषति तुत्रोपिषति // त्रुम्प / त्रुम्पति / तुत्रुम्प / त्रुपितः त्रुपितवान् // 20 अथ फान्ताः सप्त सेटश्चतुफ / तोफति / तुतोफ। क्तयोः तुफितः तुफितवान् // तुम्फ / तुम्फति। तुतुम्फ। तुम्फिता / "ऋत्तप-" 4 / 3 / 24 / इति इटि क्त्वो वा कित्त्वे तुफित्वा तुम्फित्वा // त्रुफ / त्रोफति / तुत्रोफ। त्रुफितः त्रुफितवान् / / त्रुम्फ / त्रुम्फति / तुत्रुम्फ / त्रुफित्वा त्रुम्फित्वा। तुप-तुम्प-तुफ-तुम्फास्तु तुदादावपीत्यन्ये, तुपति, शे नलुगनिष्टेश्च प्रस्तुम्पति गौः, तुफति, 25 तुम्फति // 351 वर्फ 352 रफ 353 रफु 354 अर्ब 355 कर्ब 356 खर्व 357 गर्व 358 चर्ब 359 त 360 नर्व 361 पर्व 362 बर्ष 363 शर्ब 364 पर्ब 365 सर्व 366 रिबु 367 रखु गतौ। 1 अभि सं१ सं२ प्र. तपा० संपा१ खे० // 2 पाणिनीयाः॥