________________ 44 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 5 / 1 / 108 / इति निपातनात् खे द्विषन्तपः, परन्तपः / "भृ-वृ-जि-" 5 / 1 / 112 / इति खे सर्वन्तपः / उगादौ "अस्” (उ० 952) इति असि तपः तपसी // धूप / स्वार्थे आये धूपायति / अशिति धूपायाञ्चकार दुधूप / धूपायिता, पक्षे नित्यमिटि धूपिता। धूपण भासार्थः धूपयति // ___335 रप 336 लप 337 जल्प व्यक्ते वचने ।रपति / राप रेपतुः रेपुः / रपिता, रपितुम् / 6 "आसु-यु-वपि-" 19 / 1 / 20 / इति ध्यणि राप्यः, अभिराप्यः // लप। लपति / ललाप लेपतुः लेपुः / लपिता, लपितुम् / ध्यणि लाप्यः, अभिलाप्यः / करणेऽनटि लपनं मुखम् / क्ते लपितम् / घनि आलापः, संलापः, प्रलापः / “मथ-लपः" ५।२।५३इति घिनणि प्रलपनशीलः प्रलापी // जल्प। जल्पति / जजल्प / “क्रियाव्यतिहारे-" 3 / 3 / 23 / इत्यत्र शब्दार्थवर्जनान्नात्मनेपदम् , व्यतिजल्पति / “वृङ्-भिक्षि-" 5 / 2 / 70 / इति टाके जल्पाकः, जल्पाकी / घञि जल्पः // 10 338 जप मानसे च / मनोनिर्वत्र्ये वचने। चकाराद् व्यक्ते वचने / जपति / जजाप जेपतुः . जेपुः / इटि जपिता / “ग-लुप-" 3 / 4 / 12 / इति यङि गर्हितं जपति जञ्जप्यते, अत्र "जप-जभ-" 4 / 1 / 52 / इति पूर्वस्य मुरन्तः / “कृ-वृषि-मृजि-" 5 / 1 / 42 // इति वा क्यपि जप्यम् , पक्षे ध्यणि जाप्यम् , विकल्पबलादेवात्र पँवर्गलक्षणो यो न भवति / "शोकापनुद-" 5 / 1 / 143 / इति निपा तनात् के कर्णेजपः सूचकः, "अमूर्ध-मस्तका-" 3 / 2 / 22 / इति सप्तम्या अलुप् ; अन्यत्र तृचि करें15 जपिता मन्त्री / "श्वस-जप-" ४।४।७५/इति क्तयोर्वा नेट् , जप्तः जपितः / “यजि-जपि-"५।२।४७/ इति यङन्ताद् ऊके जञ्जपूकः। “व्यध-जप-" 5 / 3 / 47 / इत्यनुपसर्गाद् अलि जप्यते इति जपः / सोपसर्गाद् घञि उपजापः // 339 चप सान्त्वने / चपति / चचाप चेपतुः चेपुः / अचि चपो वंशः तस्य विकारः चापं धनुः / उणादौ "दिव्यवि-" (उ० 142) इति अटे चपटो विपुलः / “चपेरेटः” (उ० 158) 20 चपेटः / “मृदि-कन्दि-" (उ० 465) इति अले चपलः // 340 पप समाये / “षः सो-" 2 / 3 / 98 // इति षस्य सत्वे सपति / ससाप सेपतुः सेपुः / इटि सपिता, सपिप्यति / षोपदेशत्वाद् "णि-स्तोरेवा-" 2 / 3 / 37 / इति षत्वे सिषापयिषति / येषां तु नायं षोपदेशस्तेषां षत्वाभावे सिसापयिषति / उणादौ "प्लु-ज्ञा-यजि-" (उ० 646) इति तौ सप्तिः 1 नन्वत्रोपपदे द्विषतूशब्दो द्विषतीशब्दो वा? यद्वा 'नामग्रहणे लिङ्गविशिष्टस्यापि' इति न्यायात् उभयोरपि ग्रहणम् ! उच्यते, लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् द्विषच्छब्दोपपदोऽयम् न तु द्विषतीशब्दोपपदः, यद्वा 'निपातनस्येष्टविषयत्वात् स्त्रियामनभिधानम्'इति बृहदवृत्तौ श्रीहेमचन्द्रसूरयः। द्विषतीशब्दे तु "कर्मणोऽण" 5 / 3 / 14 / इत्यणि द्विषतीतापः, अण्यन्तस्य तु द्विषत्तापः परताप इति // 2 एतन्नामा कश्चित् // ३“करणाऽऽधारे" 5 / 3 / 129 / इति अनट् ॥४"शकि-तकिचति-यति-शसि-सहि-यजि-भजि-पवर्गात" 5 / 1 / 29 / इति सूत्रेण विशेषाभावात् ध्यण तु भवत्येव विकल्पसामर्थ्यात् ॥५"चपो वृक्षः इति मैत्रेयः, वेणुविशेष इति दण्डनाथः" -मा०धा..पृ. 87 धातु-३९६ / 6 “समवायः सम्बन्धः सम्यगवबोधो वा"-मा.धा.पृ० 87 धातु-३९७ /