________________ परस्मैधातवः 329-334] स्वोपझं धातुपारायणम् / 'अथ पान्ताः पश्चदश, गुपौ वेद, तपं सप्लं अनिटी, शेपाः सेटः - 332 गुपौ रक्षणे / “गुपौ-धूप-"३।४।१। इति स्वार्थे आयः, गोपायति / “अशवि ते वा" 3 / 4 / 4 / इति वा आये गोपायाश्चकार, जुगोप / गोपायिता, पक्षे औदित्त्वाद् वेटि गोप्ता गोपिता / "कुप्य-भिद्योध्य-" 5 / 1 / 39 / इति निपातनात् क्यपि कुंप्यं सुवर्ण-रजताभ्यामन्यद् धनम् , अन्यत्र "शकि-तकि-"५।१।२९। इति ये गोप्यम् / आये "शंसि-प्रत्ययात्" 5 / 3 / 105 / इति अः गोपाया, 5 पक्षे तो गुप्तिः। गुपि गोपन-कुत्सनयोः जुगुप्सते / गुपच् व्याकुलत्वे गुप्यति / गुपण भासार्थः गोपयति, गोपना // ___333 तपं 334 धूप सन्तापे / तपति / “निसस्तपे-' 2 / 3 / 35 / इति षत्वे निष्टपति / “व्युदस्तपः” 3 / 3 / 87 / इत्यात्मनेपदम् , वितपते उत्तपते; वितपति उत्तपति पृष्ठम् / तताप तेपतुः तेपुः / यङि तातप्यते / यङ्लुपि तातपीति तातप्ति / अनुस्खारेत्त्वाद् नेट् , तप्ता, तप्तुम् / “तपेस्तपः- 10 कर्मकात्" 3 / 4 / 85 / इति कर्तयात्मनेपदं क्यश्च, तप्यते तपः साधुः-1 अर्जयतीत्यर्थः / अतप्त तपः साधुः, + / अत्र "तपः कर्ब तापे च” 3 / 4 / 91 / इति मिर्न भवति / अन्ववातप्त पापः पापेन कर्मणा, अत्रानुतापे जिज् न भवति। "नन्द्यादिभ्यः" 5 / 1 / 52 / इत्यने तपनः / “शकि-तकि-"५।१। 29 / इति ये तप्यम् / “ललाट-वात-"५।१।१२५। इति खशि ललाटन्तपः / “द्विषन्तप-परन्तपो" 1 गुपौ इति औकारो गुपि गोपने इत्यस्य निवृत्त्यर्थः यङ्लुब्निवृत्त्यर्थश्च / गुपण भासार्थः गुपद व्याकुलत्वे अनयोश्च कथम् ? अनयोस्तु धूपसाहचर्यात् निरासः। ननु धूप चुरादिरप्यस्ति, सत्यम् , अणिजन्तविच्छसाहचर्यात् भौवादिकस्यैव ग्रहणम् / ननु विच्छिरपि भासार्थः चुरादिस्तत् कथं तेन साहचर्यम् , सत्यम् , तस्य अणिजन्ताभ्यां पणि-पनिभ्यां साहचर्यान्निरासः / ननु यङ्प्रत्ययस्य प्राप्तिरेव नास्ति आयप्रत्ययेऽनेकस्वरत्वात् तत् कथं 'यङ्लुब्निवृत्त्यर्थश्च' इत्युक्तम् , सत्यम् , अशक्विषये विकल्पितस्याऽऽयस्य प्रथमं यकि 'प्रकृतिग्रहणे यडूलुबन्तस्यापि' इति न्यायात् प्राप्तिः // 2 ननु आयस्यादन्तत्वाभावेऽपि गोपायति इत्यादि सिध्यति किमदन्तकरणेन? सत्यम् , आयस्यादन्तत्वाभावे अजुगोपायत् इत्यादिस्थाने "उपान्त्यस्या-" 4 / 2 / 35 / इति हस्वत्वे अजुगोपयदित्याद्यनिष्टं स्यात् इत्यदन्तकरणफलम् // 3 गोपाय्यते तत् इति गुपेः क्यप् आदेः कत्वं च // 4 "आतू" 2 / 4 / 18 / इत्याप् सं१ टि. // 5 सकृदनि स्पर्शयतीत्यर्थः। अनासेवायामिति किम् ? निस्तपति-पुन: पुन: तपति इत्यर्थः। कथं तर्हि 'निष्टप्तं रक्षः, निष्टप्ता अरातयः' इति ! अत्र सदप्यासेवनं न विवक्ष्यते इति / 'निरतपत्' इत्यत्र कथं न षत्वम् ? उच्यते, अत्र पूर्व कृतमपि षत्वं परस्मिन्नडागमे "णषमसत्-" 2 / 1 / 60 / इत्यनेनासिद्धम् इति // 6 इति सूत्रेण अकर्मकात् स्वाङ्गकर्मकाच्च / अकर्मकत्वं चास्य दीप्यते ज्वलति भासते रोचते इत्येषु अर्थेषु / यथा-वितपते रविः, दीप्यते-सामान्येन दीप्तो भवति; ज्वलति-ज्वालावान् भवति, भासते-उद्भूतरूपो भवति, रोचते-किरणवान् भवति इत्यर्थाः / स्वेऽङ्गे उत्तपते वितपते पाणिम् - तापयतीत्यर्थः / यदा अयमस्वाङ्गकर्मकस्तदा उत्तपति सुवर्ण सुवर्णकारः-दवीकरोतीत्यर्थः इत्येव भवति ॥७"अत्र तपतेरर्जनमर्थ इति / साधुस्तत्र कर्ता, यत्रा तौ-साधुः-कर्म 'उपवासादीनि तपांसि साधु सन्तपन्ति इति, तत्र तपिर्दुःखानुभावनार्थ इति कर्मणस्तपसो व्यापारो दुःखजननमिति क्रियाभेदाद्विध्यर्थमेतत्-मा० धावृ० पृ० 197 धातु-९६५। 8 स्वस्तिकमध्यगतः पाठः संपा१ नास्ति // 9 नन्वनेन सामान्येन सानुतापेऽननुतापे च कर्तरि कर्मकर्तरि च भविष्यति किमनुतापग्रहणेनेति ! सत्यम् , अनुतापग्रहगं भावे कर्मणि चार्थम् तेन कर्मकर्तरि अन्ववातप्त कितवः स्वयमेव, कर्तरि अतप्त तपांसि साधुः, भावे अन्वतप्त चैत्रेण पश्चात्तपनं कृतमित्यर्थः // 10 पश्चात्ता कारित इत्यर्थः / अनुतापादन्यत्र उदतापि सुवर्ण सुवर्णकारेण इति जिचा भवितव्यमेव // 11 "खित्यनन्ययाऽरुषो मोऽन्तो हस्वच" 3 / 2 / 111 / इति मोऽन्तः //