________________ 16 परस्मैधातवः 318-328] स्वोपझं धातुपारायणम् / तु सिधितः / षिच संराद्धौ / सिध्यति / निसिध्यति, "स्था-सेनि-' 2 / 3 / 40 / इत्यत्र सेधनिर्देशाद् नात्र षत्वम् / सेद्धा, सेत्स्यति // 321 षिधौ शास्त्र-माङ्गल्ययोः / शास्त्रं शास्त्रविषयं शासनम् , माङ्गल्यं मालविषया क्रिया। अनयोरेवार्थयोरयमौदित् , अर्थान्तरे पुनरूदित् पूर्वक एव, अन्यथा तत्पाठोऽनर्थकः स्यात् , अर्थान्तरेऽप्यनेनैवेडिकल्पस्य सर्वत्रैव सिद्धत्वात् / “षः सो-" 2 / 3 / 98 / इति सत्वे सेधति / पोपदेशत्वात् / सस्य कृतत्वे "नाम्यन्तस्था-" 2 / 3.15 / इति षत्वम् , सिषेध। “स्था-सेनि-" 2 / 3 / 4 0 / इति षत्वे अभिषेधति, यङ्लुपि अभिषेषिधीति, अव्यवाये अभ्यषेधत् / घञि सेधः, शोभनः सेधः सुषेधः, "निर्दुःसो:-" 2 / 3 / 31 / इति षत्वन् / औदित्त्वात् “धूगौदितः” 4 / 4 / 38 / इति वेट, सेद्धा सेधिता / परोक्षायां "स्क्रसृ-वृ-" 4 / 4 / 81 / इति नित्यमिट , सिषिधिव सिषिधिम / “घसेकस्वरा-" 4 / 4 / 82 / इति नियमात् कसौ नेट्, सिषिध्वान् / वेट्त्वाद् "वेटोऽपतः” 4 / 4 / 62 / इति क्तयोनेंट् , 10 सिद्धः सिद्धवान् / उणादौ "ऋज्यजि-" (उ० 388) इति किति रे सिध्रो वृक्षः, कपि सिधकः / / 322 शुन्ध शुद्धौ / शुन्धति / इटेि शुधितः शुधितवान् / शुधंच शौचे शुध्यति, शुद्धः शुद्धवान् / शुन्धिण् शुद्धौ “गुजादेर्नवा" 3 / 4 / 18 / इति वा णिचि शुन्धते शुधितः, शुन्धयति शुन्धितः // अथ नान्ता नव सेटश्च 323 स्तन 324 धन 325 ध्वन 326 चन 327 स्वन 328 वन शन्दे / स्तनति / तस्तान / इटि स्तनिता / अचि स्तनः / शब्दे घटादित्वाद् णिगि हस्वे स्तनयति, अन्यत्र स्तानयति / घनि अभिनिष्टानो विसर्गः, “अभि-निःष्टानः" 2 / 3 / 24 / इति षत्वम् / “असमानलोपे-"४।१।६३। इति सन्वद्भावे अतिस्तनत् / स्तनण् गर्जे अदन्तः, स्तनयति, समानलोपित्वात् सन्वद्भावाभावे अतस्तनत् // धन / धनति / अचि धनम् / इटि धनिता, धनिष्यति / “मन्-वन्-"५।१। 20 147 / इति वनिप् , धन्वा, बाहुलकादात्वाभावः / उणादौ "कृषि-चमि-"(उ० 829) इति ऊः, धनूज्यां चापं च / “रुद्यर्ति-"(उ० 997) इति उसि धनुः // ध्वन। ध्वनति / दध्वान / यङि दन्ध्वन्यते / इटि ध्वनिता, ध्वनिप्यति / अचि ध्वनः / ते "क्षुब्ध-विरिब्ध-" 4 / 4 / 70 / इति निपातनात् तमसि नेट , ध्वान्तं तमः, ध्वनितमन्यत् / शब्दे घटादित्वाद् णौ ह्रस्वे ध्वनयति, अन्यत्र ध्वानयति / उणादौ "पदि-पठि-" (उ० 607) इति इः, ध्वनिः। वनण् शब्दे अदन्तः, ध्वनयति // 25 चन / चनति / हिंसायां घटादित्वाद् णौ हूस्वे चनयति // स्वन / दन्त्यादिः / वनति / सस्वान / “व्यवात् स्वनोऽशने" 2 / 3 / 43 / इति षत्वे विष्वाति अवष्वणति, विषष्वाण अवषष्वाण, 1 'सेध' इति कृतगुणस्य निर्देशः। ननु सेध इत्यत्र अकारश्रवणात् "तिवा शवा" इति न्यायात् यलपि / 'न भविष्यति इति चेत्, न, अकारोऽत्रोच्चारणार्थः, न तु शनिर्देशः, तेन यङ्लुप्यपि भवी, प्रतिषेषिधीति // 2 भुङ्क्ते इत्यर्थः-सशब्दं भुङ्क्ते इत्यर्थः इति वृत्तिकारः। "तथा च वृत्तौ अभ्यवहारक्रियाविशेषोऽभिधीयतेधा०पा• 6