________________ परस्मैधातवः 302-317] स्वोपझं धातुपारायणम् / आनन्द / अचि अन्दः / क्ते सेट्त्वात् अन्दा / उणादौ “कृषि-चमि-" (उ० 829) इति ऊः, अन्दूर्गजयादशृङ्खलम् // 309 इदु परमैश्वर्ये / परमैश्वर्यं परमेशनक्रिया। उदित्त्वाद् ने इन्दति / “गुरुनाम्यादेः-" 3 / 4 / 48 / इत्यामादेशे इन्दाञ्चकार / के सेट्वात् इन्दा / अनटि इन्दनम् / उणादौ “भी-वृधि-" (उ० 387) इति रे इन्द्रः॥ ____310 'वि(वि)दु अवयवे / अवयव एकदेशः, अनेन स्वगता क्रिया लक्ष्यते / उदित्त्वाद् ने वि(बि)न्दति / यद्यभिधानमस्ति वि(बि)न्दुरिति दृश्यते, यथा गण्डति गण्ड इति / उणादौ "भृ-मृ-तृत्सरि-"(उ० 716) इति उः, वि(बि)न्दुः // 311 णिदु कुत्सायाम् / “पाठे–' 2 / 3 / 97 / इति णस्य नत्वे उदित्त्वाद् ने निन्दति / णोपदेशत्वाद् णत्वे प्रणिन्दति। "निस-निक्ष-निन्दः कृति वा" 2 / 3 / 84 / इति वा णत्वे प्रणिन्दनम् , 10 प्रनिन्दनम् / “निन्द-हिंस-" 5 / 2 / 68 / इति णके निन्दनशीलो निन्दकः / ते सेट्त्वात् निन्दा // 312 टुनदु समृद्धौ / उदित्त्वाद् ने नन्दति / नोपदेशत्वाद् न णत्वम्, प्रनन्दति / ननन्द / णौ "नन्द्यादिभ्यो-" 5 / 1 / 52 / इत्यने नन्दनः। अचि नन्दतीति नन्दः, आपि नन्दा तिथिः, गौरादित्वाद् ड्याम् नन्दी नन्द एव / “प्रज्ञादि-" 7 / 1 / 165 / अणि नान्दः, स्त्रियां नान्दी। नन्दोऽस्यास्तीति नन्दी / णके नन्दकः / द्वित्त्वात् “टितोऽथुः" 5 / 3 / 83 // नन्दथुः / उणादौ "हि-नन्दि-” (उ० 15 220) इत्यन्ते नन्दन्तः सखा, नन्दन्ती सखी / “तृ-जि-" (उ० 221) इति णौ अन्ते नन्दयन्तो राजा / "हृषि-पुषि-" (उ० 797) इति णौ-इनौ नन्दयित्नुः पुत्रः / “यति-ननन्दिभ्यां दीर्घश्च" (उ० 856) इति ऋः, ननान्दा ननान्दरौ // 313 चदु दीप्त्या-ऽऽह्लादयोः। आह्लाद आह्वादनम्-आनन्दोत्पादनमित्यर्थः। उदित्त्वाद् ने चन्दति / चचन्द / “रम्यादिभ्यः-" 5 / 3 / 126 // इत्यनटि चन्दति-दीप्यते आह्लादयति चेति चन्दनम् / 20 उणादौ "भी-वृधि-" (उ० 387) इति रे चन्द्रः / “मदि-मन्दि-" (उ० 412) इति इरे चन्दिरश्चन्द्रः / छन्द इति तु “छदि-वहिभ्याम्-" (उ० 954) इति असि छादयतेः // 314 त्रदु चेष्टायाम् / उदित्त्वाद् ने त्रन्दति / तत्रन्द // 315 कदु 316 क्रदु 317 क्लदु रोदना-ऽऽह्वानयोः / उदित्त्वाद् ने कन्दति / चकन्द / अचि 1 "बिदि अवयवे / अवयव इति अवयवक्रिया उच्यते। बशादिः। बिन्दति, बिबिन्द, बिन्दिता इत्यादि। बिन्दुः बाहुलकाद् उ-प्रत्ययः / अत्र मैत्रेयः "बिन्दुरिच्छुः” इति सूत्रं बशादिं पठन् बिन्दुशब्दं व्युदपादयत् / वृत्तौ तु तत्र वेत्तेरेव पाठः। अत्र सम्मतायाम्-'भिदि अवयवे' / यद्यभिधानमस्ति 'भिन्दुः' इति दृश्यते”। माधवीया धातुवृत्ति पृ.९४ धातुअंक 64 / 2 “अदुरुपसर्गान्तरो ण-हिनु-मीना-ऽऽनेः" 2 / 3 / 77 / इत्यनेन / 3 नपूर्वाद् नन्दतेः / 4 अत्र नखादित्वाद् (3 / 2 / 128) नोऽत् न भवति // 5 छदण् संवरणे इत्यस्मात् अस धातोश्च छन्द इत्यादेशः, छन्दो वेदः इच्छा वाग्बन्धविशेषश्च /