________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे 4 / 4 / 64 / अभ्यणे शेते। अविदूरादन्यत्र अभ्यर्दितश्चौरः पीडित इत्यर्थः, अत एव याचनस्थाने यातनेत्येके पठन्ति, अर्दितः खेदित इत्यर्थः / ऋथ अदिए हिंसायाम् “युजादेर्नवा" 3 / 4 / 18 // इति वा णिचि अर्दयति अर्दते॥ 302 नई 303 पर्द 304 गर्द शन्दे / नर्दति / नोपदेशत्वाद् णत्वाभावे प्रनर्दति॥ गर्द / “पाठे-" 2 / 3 / 97 / इति नत्वे नर्दति / णोपदेशत्वाद् णत्वे प्रणर्दति / ग्रहादित्वाद् णिनि न नईतीति अनर्दी / “कर्तुणिन्" 5 / 1 / 153 / सिंह इव विनर्दति सिंहविनर्दी॥ गर्द / गर्दति। जगर्द / ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, नर्दा गर्दा / उणादौ "कृ-श-" (उ० 329) इति अभे गर्दभः॥ 305 तर्द हिंसायाम / तर्दति / ततर्द / णके वितर्दिका वेदिः / ते सेट्त्वाद् अः, तर्दा // 10 306 कर्द कुत्सिते शब्दे / कर्दति / चकर्द / क्ते सेट्त्वात् कर्दा / उणादौ "सृ-पृ-प्रथि-" (उ० 347) इति अमे कर्दमः / / ___307 खर्द दशने / दशनमिह दन्दशूककर्तृक दन्तकर्म स्वभावाच्च धातुः साधनप्रधानप्रयोगसमवायी / खर्दति / चखर्द। अचि घनि च खर्दः / क्ते सेट्त्वात् खर्दा। पूर्वे तु खर्द दन्दशूके इति घठन्ति, व्याचक्षते च-दन्दशनशीलो दन्दशूक उच्यते, अनेन च 15 तद्विषया क्रिया लक्ष्यते, क्रियार्थत्वाद् धातोः। दन्दशन इति यु(ल्यु)डन्तनिर्देशेऽपि तद्विषया क्रिया प्रतीयते। किन्तु साधननिर्देशः साधनप्रधानप्रयोगसमवायित्वज्ञापनार्थ इति // 308 अदु बन्धने / उदित्त्वाद् ने अन्दति / “अनातो-" 4 / 1 / 69 / इति आत्वे ने च 1 सर्वास्वपि प्रतिषु 'भ्यणे सेने / अवि इति पाठो दृश्यते // 2 "310 खर्द दंदशके"-शाकटायन धातुपाठ / "खर्द दन्दशके। दन्दशूको दंशनशीलः स्वभावभूतगर्हितदंशनक्रियाकर्ता / अनेन तत्समवेता स्वभावभूतगहितक्रिया लक्ष्यते धातोः क्रियावचनत्वात् / एवम् अन्यत्रापि द्रव्यनिर्देशे क्रिया लक्ष्यते। दंदशन इत्येतन्नोक्तम् , ताच्छील्यार्थस्य संग्रहो न स्यात्”-मैत्रेयरक्षितरचितधातुप्रदीप पृ० १४-धातु अंक 59 / "खर्द दन्दशूके। दन्दशक इति दन्दशककर्तृका क्रिया अभिधीयते। साधनप्रधानप्रणेगित्वस्थापनार्थं दन्दशूकप्रहणम्-इति संमता-तरङ्गिण्यौ / दन्दर्को गर्हितो दंशनशीलः, इह तु तत्स्था क्रिया, दंश इत्यनुक्तिः ताच्छील्यादिप्रतिपत्त्यर्था इति मैत्रेये प्रतिपादितम् / दन्तशूक इति केशवस्वामी दकारस्य स्थाने तकारमाह"-- इत्यादि / माधवीया धातुवृत्ति पृ. 91 धातुअंक 60 / "खर्द दन्दशके। दंशहिंसादिरूपायां दन्दशकक्रियायाम्-इत्यर्थः"-सिद्धांतकौमुदी 7-4-7 सूत्र धातु अंक 24 / 3 यङन्त तपा० // 4 "अति अदि बन्धने / अत्र धनपालः-तान्तं द्रविडाः पठन्ति। आयर्यास्तु दान्तम्-इति / उभयमिति मैत्रेय-स्वामि-काश्यप-सम्मताकारादयः"-माधवीया धातुवृत्ति. पृ० 93 धातुअंक 62 / “अत्यादयः (अति-अदि-इदि-बिदि-गडि-) पञ्चैते न तिकविषयाः इति काश्यपः माधवीया धातवृत्ति पृ. 94 धातुअंक-६५।