________________ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे सम्मतः / एवमन्यत्राप्याचार्यभेदेन धातुपाठो द्रष्टव्यः // 284 जुतू भासने। जोतति / ऋदित्त्वाद् वाऽङि अजुतत् , अजोतीत् / “वौ व्यञ्जनादेः”–४।३। 25 / इति वा कित्त्वे जोतित्वा जुतित्वा, जुजोतिषति जुजुतिषति // 285 अतु बन्धने / उदित्त्वाद् ने अन्तति / “अनातो-'' 4 / 1 / 69 / इत्यात्वे ने च आनन्त / 5 णके अन्तकः / अन्ये अतु इतु बन्धने इति पेटुः / इन्ताञ्चकार // 286 कित निवासे। केतति / अनटि सङ्केतनम् निकेतनम् / घञि सङ्केतः / णके केतकी। धातूनामनेकार्थत्वात् "कितः संशय-प्रतीकारे" 3 / 4 / 6 / इति स्वार्थे सनि विचिकित्सति मे मनः, चिकित्सत्यातुरं वैद्यः / निग्रह-विनाशावपि प्रतीकारस्यैव भेदौ, परक्षेत्रे चिकित्स्यैः पारदारिकः, चिकि स्यानि क्षेत्रे तृणााने // 10 287 ऋत घृणा-गति-स्पर्धेषु / "ऋतेमयः" 3 / 4 / 3 / इति स्वार्थे ङीये ऋतीयते / “अशवि ते वा” 3 / 4 / 4 / इति वा ङीये ऋतीयिता, ऋतीयाश्चक्रे; पक्षे अर्तिता, आनर्त। "ऋत्तृष-" 4 / 3 / 24 / इति सेटः क्त्वो वा कित्त्वे ऋतित्वा अर्तित्वा // अथ थान्ताः षट् सेटश्च 288 कुथु 289 पुथु 290 लुथु 291 मथु 292 मन्थ 293 मान्थ हिंसा-सङ्क्के15 शयोः। हिंसा प्राण्युपघातः, सङ्क्लेशो बाधा / उदित्त्वाद् ने कुन्थति, कुन्थ्यते / क्ते कुन्थितम् / क्त्वि कुन्थित्वा / कुन्थश् सङ्क्लेशे कुश्शाति, कुथ्यते, कुथितम् // पुथु / उदित्त्वाद् ने पुन्थति, पुन्थ्यते, पुन्थितम् // लुथु उदित्त्वाद् ने लुन्थति, लुन्थ्यते, लुन्थितम् // मथु। उदित्त्वाद् ने मन्थति, मन्थ्यते, मन्थितम् // मन्थ / नोपान्त्याऽयम्। विलोडनेऽयमित्येके। मन्थति / मथ्यते / मथितम् / “ऋत्तृष-" 4 / 3 / 24 / इति सेटः क्त्वो वा कित्त्वे मथित्वा, मन्थित्वा / 20 अचि मन्थः / मन्थश् विलोडने मनाति मथ्नीतः // मान्थ / मान्थति - / माथ्यते // ___ अथ दान्ताः षड्विंशतिः स्कन्दवर्जाः सेटश्च 294 खादृ भक्षणे। खादति / चखाद / ऋदित्त्वाद् हूस्वाभावे अचखादत् / “गति-बोधा-ऽऽहारा-" 2 / 2 / 5 / इति सूत्रेण खादिवर्जनादणिकर्तुः कर्मत्वाभावे खादयत्योदनं चैत्रेण मैत्रः, अत्र फलवत्कर्तर्यपि "चल्याहारार्थे–' 3 / 3 / 108 / इति परस्मैपदम्। “निन्द-हिंस-"५।२।६८। इति णके खादनशीलः 25 खादकः // 1 अनवधारणात्मकः प्रत्ययः संशयः, प्रतीकारो दुःखहेतोनिराकरणम् // 2 संशेते इत्यथः // 3 प्रतिकरोतीत्यर्थः // 4 ननु अन्यैर्निग्रह-विनाशयोरपि सन् कथितः तत् स्वीयमते कथम् इति शङ्कायामाह-निग्रह-विनाशौ इति // 5 निप्राह्य इत्यर्थः // 6 विनाशयितव्यानि, अपनेतव्यानि वेत्यर्थः // 7 ननु डीय इति अदन्ताकरणेऽमि. ऋतीयते इत्यादि सेत्स्यति किमदन्तकरणेन ? सत्यम्, ऋतीयते इत्यादीनामदन्तकरणाभावेऽपि सिद्धिः परं आर्तितीय इत्यत्रादन्ततायाः फलम् , अन्यथा आतितियत् इति स्यात् / उकार आत्मनेपदार्थः गुणाभावार्थश्च /