________________ परस्मैधातवः 255-272] स्वोपनं धातुपारायणम् / रणनशीलो रणनः॥ वण। वणति / "अनादेशादेः-" 4 / 1 / 24 / इति एत्वस्य "न शसददि-" 4 / 1 / 30 / इति वादित्वात् प्रतिषेधे ववणतुः ववणुः / यङि वंवण्यते / यङ्लुपि वंवणीति वंवण्ति / वनि “वन्याङ्–' 4 / 2 / 65 / इति आत्वे प्रवावा / विचि प्रवण / विपि “अहन्पश्चमस्य-" 4 / 1 / 107 / इति दीर्घत्वे प्रवाण् / उत्पूर्वादचि पृषोदरादित्वाद् दो लत्वे उत्क्षणम् / क्तौ “अहन्पञ्चमस्य-" 4 / 1 / 107 / इति दीर्घत्वे तस्य टत्वे वाण्टिः / उणादौ “कमि-वमि-" (उ० 618) इति / णिद् इः, वाणिर्वाक्, ड्याम् वाणी // व्रण / व्रणति / अचि व्रणः / बेणण गात्रविचूर्णने अदन्तः, व्रणयति // बणबिणति / “अनादेशादे:-" 4 / 1 / 24 / इति एत्वे बेणतुः बेणुः, पवर्गतृतीयादित्वेन “न शस-ददि-" 4 / 1 / 30 / इति प्रतिषेधाभावः / णौ--अचि बाणः / “व्यञ्जनाद् -" 5 / 3 / 132 / घञि बणन्त्यस्मिन् पुडा इति बाणः // भण। भणति। णौ-अचि भाणः प्रबन्धविशेषः।। श्रण / भ्रणति / बभ्राण // मण / मणति / ममाण मेणतुः मेणुः। उणादौ "मणि-व- 10 सेर्णित्" (उ० 516) इति अवे माणवः शिष्यः / “पदि-पठि-एचि-"(उ०६०७) इति इः, मणिः। "कुशिक-"(उ०४५) इति इके मैणिको महाकुम्भः॥ धण। धणति / दधाण // ध्वण। ध्वणति / दध्वाण // ध्रण / ध्रणति / दध्राण // कण / कणति / चकाण। गतौ घटादित्वाण्णौ हस्वंत्वे कणयति, अन्यत्र काणयति / अचि कणः, कणिका / घनि काणः / उणादौ "स्यमि-कषि-" (उ० 46) इति ईके कणीकः पटवासः / कणीका भिन्नतण्डुलावयवः / “कण्यणेर्णित्" 15 (उ० 56) इति उके काणुकः काकः, काणुकम्-अक्षिमलम् / “कणि-भल्लेर्दीर्घश्व वा” (उ०६०) इति ऊके कणूको धान्यस्तोकः, काणूकः पक्षी, काणूकम्-अक्षिमलं तमश्च / “वनि-कणि-" (उ० 162) इति ठे कण्ठः / “कण्यणि-" (उ० 169) इति वा णिति डे काण्डः शरः, कण्डं भूषणम् / “लटिखटि-" (उ० 505) इति वे कण्वं पापम् , कण्वो मेधावी / “मृ-श्वि-" (उ० 627) इति ईचौ कणीचिः शङ्खः शकटं च // क्वण / कणति / चक्काण / “नवा कण-" 5 / 3 / 48 / इति वाऽलि 20 कणः काणः / “नेर्नद-" 5 / 3 / 26 / इति वाऽलि निक्कणः निक्काणः। 'वैणे क्वणः" 5 / 3 / 27 / इति सोपसर्गाद् वाऽलि प्रक्वणः प्रक्वाणो वीणायाः / उणादौ "सृणीका-" (उ० 50) इति निपातनाद् यङन्तादीके कङ्कणीको घण्टाजालम् , तथा किमः परादीके किङ्किणीका घण्टिका // चण / चणति / चचाण / हिंसा-दान-गतिषु घटादित्वाद् णौ हूस्वत्वे चणयति, अन्यत्र चाणयति / उणादौ "दृ-क-न-" (उ० 27) इति अके चणकः। “महि-कणि-" (उ० 428) इति णिति ऊरे 25 चाणूरो विष्णुहतो मल्लः // 1 पञ्चमेति दीर्घ प्र संपा 1 // 2 उल्वणः / तौ संपा१॥३ "कुशिक दृदिक-मक्षिका-इतिक-पिपीलिकादयः” (उ० 45) इत्यत्र आदिग्रहणाद् गब्दिक-भुरिक-भुलिकादीनामिव अयमपि // 4 वीणायां भवो वैणः, तस्मिन्नर्थे वर्तमानादुपसर्गपूर्वात् कणेर्भावाकोरल् वा स्यात् / प्रक्वणः प्रक्वाणो वीणायाः। कथं क्यणः क्वाणो वीणायाः ? "नघा कण-"५॥३॥४८॥ इत्यादिना सामान्येन विधानाद् वैणेऽपि भवति / 5 "किमः परात् कणेः किण च" (उ० 50) धा. पा० 5