SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 32 आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे याम् उपलाडयति / ललिण् ईप्सायाम् लालयते / “घुरविशब्दे" 4 / 4 / 68 / इति विशब्दप्रतिषेधाण्णिचोऽनित्यत्वे उल्ललते // ___255 कडु मदे। उदित्त्वाद् ने कण्डति। चकण्ड / कडुङ् मदे उदित्त्वाद् ने कण्डते / कडमप्येकेऽत्र पठन्ति, स तु तुदादिपाठेनैव गतार्थ इति नेहाधीत // ___ 256 कद्ड कार्कश्ये / दोपान्त्योऽयम् / “तवर्गस्य-" 1 / 3060 / इति दस्य डत्वे कडति / चकड्ड / अचि कडः कर्कशः / ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, कड्डा / विपि “पदस्य" 2 / 1 / 89 / इति संयोगान्तलोपे कद् कत् / अन्ये तु डोपान्त्यमेनं मन्यन्ते, तदा संयोगान्तलोपे कड् कट् // 257 अड अभियोगे। दोपान्त्यः / “तवर्गस्य-" 1 / 3 / 60 / इति दस्य डत्वे अड्डति / 10 "अनातो-" 4 / 1 / 69 / इत्यात्वे ने च आनडु / सनि "न ब-द-नम्-"४।१।५। इति दस्य द्वित्वाभावे अडिडिषति / किपि “पदस्य" 2 / 1 / 89 / इति संयोगान्तलोपे अद् अत् / अन्ये तु डोपान्त्यमेनं मन्यन्ते, तदा संयोगान्तलोपे अड् अट् ; सनि "न ब-द-नम्-" 4 / 1 / 5 / इति प्रतिषेधाभावात् ड्डि इत्येतस्य द्वित्वे अडिड्डिषति // ___258 चुद्ड हावकरणे। हावो भावसूचनम् / दोपान्त्योऽयम् / “तवर्गस्य-" 1 / 3 / 60 / इति 15 दस्य डत्वे चुडुति / चुचुङ / अचि चुडं भगम् / किपि सौ "पदस्य-" 2 / 1189 / इति संयोगान्तलोपे चुद् चुत्, साधुचुत् / डोपान्त्योऽयमित्यन्ये तत्र संयोगान्तलोपे चुड् चुट् // अथ णान्ता एकानविंशतिः सेटच२५९ अण 260 रण 261 वण 262 व्रण 263 वण 264 भण 265 भ्रण 266 मण 267 धण 268 ध्वण 269 ध्रण 270 कण 271 क्वण 272 चण शब्दे / शब्दः 20 शब्दक्रिया / अणति / आण आणतुः / “तिक्कृतौ नाम्नि" 5 / 171 / इत्यकटि अणकः / अचि अणः, कुत्सायां कपि अणकः / उणादौ "कण्यणेर्णित्" (उ० 56) इत्युके आणुकमक्षिमलम् / "शल्यणे:-" (उ० 59) इति णिदूकः, आणूकं तदेव / “कण्यणि-" (उ० 169) इति वा णिड्डः, अण्डः आण्डः / “कृ-श-कुटि-" (उ० 619) इति वा णिदिः, अणिः आणिभरकीलिका। "भृ मृ-त-सरि-" (उ० 716) इत्युः, अणुः / “अणे?ऽन्तश्च" (उ० 836) इति णिदूः, आण्डू25 जलभृङ्गारः॥ रण। रणति / रराण रेणतुः रेणुः। गतौ घटादित्वाण्णौ ह्रखः, रणयति, अन्यत्र राणयति / "प्राज-भास-" 4 / 2 / 36 / इति णौ डे वा इखत्वे अरराणत् अरीरणत् / अचि रणः / "युवर्ण-"५।३।२८। इत्यलि रण्यते रणः / रणन्त्यस्मिन्निति “व्यञ्जनाद्-" 5 / 3 / 132 / घनित्यस्यापवादे बाहुलकात् "पुनाम्नि-" 5 / 3 / 130 / इति थे रणः / “चालशब्दार्थात्-" 5 / 2 / 43 / इत्यने १चलश संपा१॥
SR No.004315
Book TitleDhatuparayanam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherShahibag Girdharnagar Jain S M Sangh
Publication Year1979
Total Pages532
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy