________________ 10 परस्मैधातवः 218-254] स्वोपचं धातुपारायणम् / 31 233 शौड़ गर्वे। तालव्यादिः / शौडति / शुशौड / ऋदित्त्वाद् णौ डे "उपान्त्यस्या-"४।२।३५। इति हूस्वाभावे अशुशौडत् / उणादौ “कृ-श-पृ-पूग्-" (उ० 418) इतीरे शौडीरः // 234 यौट्ट सम्बन्धे / सम्बन्धः श्लेषः / यौडति। युयौड / ऋदित्त्वाद् णौ डे "उपान्त्यस्या-" 4 / 2 / 35 / इति न हूस्वः, अयुयौडत् // 235 मे 236 ग्रेड 237 म्लेड 238 लोड 239 लौड़ उन्मादे / मेडति, प्रेडति, 6 म्लेडति, लोडति, लौडति / ऋदित्त्वाद् हस्वाभावे अमिमेडत् , अमिछेडत् , अमिम्लेडत् , अलुलोडत् , अलुलौडत् / शौड्रादयो लोडवर्जाष्टान्ता इत्यन्ये // 240 रोड 241 रौट्ट 242 तौड अनादरे। रोडति। रुरोड। ऋदित्त्वात् अरुरोडत् // रौट्ट / रौडति / रुरौड / ऋदित्त्वात् अरुरौडत् // तौट्ट। तौडति / तुतौड। ऋदित्त्वात् अतुतौडत् // 243 क्रीड़ विहारे / क्रीडति / चिक्रीड। “क्रीडोऽकूजने” 3 / 3 / 33 / इत्यात्मनेपदम् , सङ्क्रीडते, कूजने तु सङ्क्रीडन्ति शकटानि / “अन्वाङ्-परेः" 3 / 3 / 34 / अनुक्रीडते, आक्रीडते, परिक्रीडते / ऋदित्त्वाद् डे न ह्रस्वः, अचिक्रीडत् / “आङः क्रीड-" 5 / 2 / 51 // इति घिनणि आक्रीडनशील आक्रीडी। ते क्रीडितम् / क्ते सेट्त्वात् “क्तेटो-" 5 / 3 / 106 / इत्यः, क्रीडा॥ 244 तुडु 245 तूड 246 तोड़ तोडने / तोडनं दारणम् / तोडति / तुतोड। ऋदित्त्वाद 15 अतुतोडत् / दारणस्य हिंसाविशेषत्वाद् "हन्त्यर्थाश्च' इति चुरादित्वे तोडयति / संयुक्तडान्तोऽयमित्येके तुडुति। उभयोर्लक्ष्यम् "तुडत्यंहः सकलमचिरात्तोडयत्यश्रियं च" // ___ तूड़ / तूडति / तुतूड। ऋदित्त्वात् अतुतूडत् / क्ते सेट्त्वात् "क्तेटो-" 5 / 3 / 106 / इत्यः, तूडा / / 247 हुड 248 हूडु 249 हट्ट 250 हौड गतौ / होडति, इडति, हूडति, होडति / 20 ऋदित्त्वात् अजुहोडत् , अजुहूडत् , अजुहूडत् , अजुहौडत् // __ 251 खोड प्रतीपाते / गतावित्यनुवृत्तेर्गतिविषये प्रतीघाते / खोडति। ऋदित्त्वात् अचुखोडत् / अचि खोडः पङ्गुः / लत्वे खोला शिरस्त्रम् // 252 विड आक्रोशे / वेडति। विवेड / [उणादौ] "कुलि-पिलि-" (उ० 476) इति कित्याले विडालः // 253 अड उद्यमे / अडति / व्यडति / अचि व्यडः / व्यापूर्वस्य व्याडः / लत्वे व्यालः // 254 लड विलासे / लडति / लत्वे ललति। जिह्वोन्मन्थने घटादित्वाद् णौ ह्रस्वे लडयति, अन्यत्र लाडयति, लत्वे लालयति / नन्द्यादित्वादने लडना ललना / अचि लडः। लडण् उपसेवा 1 तोड्धा तोरूपाणि तुधातुतुल्यानीति नाचार्येणोल्लिखितानीति ज्ञेयम् // 25