________________ परस्मैधातवः 142-173] स्वोपझं धातुपारायणम् / 157 लाज 158 लाजु भर्जने च / चकाराद् भर्त्सने / लाजति / ते सेट्त्वाद् गत्वाभावे पनि लाज्यन्ते इति लाजाः॥ लाजु / उदित्त्वाद् नागमे लाञ्जति // 159 जज 160 जजु युद्धे। जजति // जजु / उदित्त्वाद् नागमे जजति / यङ्लुपि जाजक्ति जाजञ्जीति // 161 तुज हिंसायाम् / तोजति / तुतोज / “वौ व्यञ्जना-" 4 / 3 / 25 / इति क्त्वा-सनो कित्त्वे / तुजित्वा तोजित्वा, तुतुजिषति तुतोजिषति // 162 तुजु वलने च। चकाराद् हिंसायाम् / पालनेऽपीत्यन्ये / वलनं प्राणनम् / उदित्त्वाद् नागमे तुञ्जति / तुतुञ्ज / क्ते तुञ्जिता भूः / क्ते सेट्त्वात् "क्तेटो-' 5 / 3 / 106 / इत्यः, तुञ्जा / तुङ्ग इति तु तमेर्डित्युङ्गे / तुजुण हिंसाद्यर्थः, भासार्थश्चान्यः, तुञ्जयति / / 163 गर्ज 164 गजु 165 गृज 166 गृजु 167 मुज 168 मुजु 169 मृजु 170 मज 10 शब्द // गर्ज / गर्जति। जगज। क्ते गर्जितम् / “बहुलमेतन्निदर्शनम्" इति वचनात् चुरादित्वे गर्जयति / यल्लक्षम् ___ "प्रतिरवपरिपूर्णा गर्जयन्त्यद्रयोऽपि" // गजु / उदित्त्वाद् नागमे गञ्जति / जगञ्ज / अचि गञ्जा // गृज / गर्जति / जगृजुः / यङि जरीगृज्यते / यङ्लुपि जरिगति जर्गति / ते गृजितम् // गृजु / उदित्त्वाद् नेऽन्ते गृअति। 15 जगृञ्ज / यङि जरीगृञ्ज्यते। यङ्लुपि जरिगृति जति / उणादौ "स्वसि-रसि–" (उ० 269) इत्यने गृञ्जनमभक्ष्यद्रव्यम् // मुज / मोजति / मुमोज / “वौ व्यञ्जना-" 4 / 3 / 25 / इति क्त्वासनो कित्त्वे मुजित्वा मोजित्वा, मुमुजिषति मुमोजिषति // मुजु / उदित्त्वाद् ने मुञ्जति / मुमुञ्ज / अचि मुञ्जः॥ मृजु / उदित्त्वाद् ने मृञ्जति // मज / मजति // 171 गज मदने च / चकारात् शब्दे / मदनं मदोत्पत्तिः / गजति। जगाज। अचि गजः / 20 गज मार्जण् शब्दे गाजयति // 172 त्यजं हानौ / हानिस्त्यागः / त्यजति / तत्याज / अनुस्वारेत्त्वाद् नेट् , अत्याक्षीत् / त्यक्ता। यङि तात्यज्यते / यङ्लुपि तात्यजीति तात्यक्ति / ध्यणि "त्यज-" 4 / 1 / 118 / इति गत्वप्रतिषेधात् त्याज्यम् / “युज-भुज-" 5 / 2 / 50 / इति घिनणि त्यागी। घनि त्यागः॥ 173 षजं सङ्गे / “षः सो-" 2 / 3 / 98 / इति सत्वे "दंश-सञ्जः शवि" 4 / 2 / 49 / इति 25 नलोपे सजति। “व्यञ्जनानामनिटि"४।३।४५। इति वृद्धौ असाङ्क्षीत् / संयोगान्तत्वात् “इन्ध्यसंयोगा-" 1 तमूच् काङ्कायाम् इत्यस्माद्धातोः “कमि-तमि-शमिभ्यो डित्" (उ० 107) इति डित् उङ्गः / / "व्यञ्जनानामनिटि" 4 / 3 / 45 / "सः सिजस्तदि-स्योः" 4 / 3 / 65 / "अघोषे प्रथमोऽशिटः" 1350 / 2 अत्र "च-जः क-गम्-"२।१।८६॥ इति वृद्धौ ईत्त्वे प्रथमत्वे कत्वे च कृते "नाम्यन्तस्था-कवर्गात-" 2 // 3 // 15 // इति सस्य षत्वे "क-षयोर्योगे क्षः” इति वचनात् क्षत्वं च // धा०पा०४