________________ 24 _ आचार्यश्रीहेमचन्द्रविरचितं - [भूषादिगणे 142 अर्ज 143 सर्ज अर्जरे। अर्जति / “अनातो नश्वान्त-" 4 / 1 / 69 / इति पूर्वस्यात्वे नागमे च आनर्ज / “अयि रः” 4 / 1 / 6 / इति रस्य द्वित्वाभावे अर्जिजिषति / उणादौ "यम्यजि-" (उ० 288) इत्युने अर्जुनः / “अर्जेरृज् च" (उ० 722) ऋजुः / अर्जण् प्रतियने अर्जयति // सर्ज। सर्जति / ससर्ज / णके सर्जिका / उणादौ "कृषि-चमि-" (उ० 829) इत्यूः, सर्जूः क्षारः // 6 144 कर्ज व्यथने / कर्जति / चकर्ज / 145 खर्ज मार्जने च। चकाराद् व्यथने / खर्जति। चखर्ज। उणादौ "मी-मसि-"(उ० 427) इत्यूरे खजूरः / “कृषि-चमि-" (उ० 829) इत्यूः, खजूः // 146 खज मन्थे / मन्थो विलोडनम् / खजति / चखाज चखजतुः चखजुः, आदेशादित्वाद् "अनादेशादे:-" 4 / 1 / 24 / इति नैत्वम् / यङि चाखज्यते। यङ्लुपि चाखजीति / क्ते खजि10 तम् / क्ते सेट्त्वाद् ध्यणि पनि च गत्वाभावे खाज्यम् खाजः। अचि खजः / उणादौ "शलि-बलि-" (उ० 34) इत्याके खजन्त्यनेनेति खजाको मन्थः, खजाका दर्वी // 147 खजु गतिवैकल्ये / गतवैकल्यं विकृतत्वम् / उदित्त्वाद् नागमे खञ्जति / चखञ्ज / अचि खञ्जः / नन्द्यादित्वादने खञ्जनः / उणादौ "खरञ्जेरीटः" (उ० 152) खञ्जरीटः // 148 एन कम्पने / एजति / "गुरुनाम्यादेः-" 3 / 4 / 18 / इति परोक्षाया आमादेशे एजा. 16 अकार / ऋदित्त्वाद् “उपान्त्यस्यासमान-" 4 / 2 / 35 / इति इस्वाभावे मा भवानेजिजत् / “एजेः" . 5 / 1 / 118 / खश्, अनमेजयः / एजुङ् दीप्तौ एजते // 149 दोस्फूर्जा वजनि?षे / स्फूर्जति / पुस्फूर्ज / यहि पोस्फूयते / यङ्लुपि पोस्फूर्जीति; दिवि "रात्सः" 2 / 1 / 90 / इति नियमात् संयोगान्तलुगभावे अपोस्फङ / ट्वित्त्वात् "ट्वितोऽथुः" 5 / 3 / 82 / स्फूर्जथुः / ओदित्त्वात् क्तयोस्तस्य नत्वे आदित्त्वात् चेडभावे स्फूर्णः स्फूर्णवान् / “नवा 20 भावाऽऽरम्मे" 4 / 4 / 72 / इति वेडभावे स्फूर्णम् स्फूर्जितमनेन, प्रस्फूर्णः प्रस्फूर्जितः। "भवादे - मिनो-" 2 / 1 / 63 // इति दीर्घ सिद्धे दीर्घोच्चारणं "भ्वादेः-" 2 / 1 / 63 // इति दीर्घत्वस्यानित्यत्वज्ञापनार्थम् , तेन कुर्दते कुर्दनः इत्यपि सिद्धम् // - 150 क्षीज 151 कूज 152 गुज 153 गुजु अव्यक्ते शब्द। क्षीजति। चिक्षीज // कूज / कूजति / चुकूज / क्ते कूजितम् / ते सेट्त्वाद् न पनि गत्वम् , कूजः // गुज। 25 गोजति / जुगोज॥, गुजु / उदित्त्वाद् नागमे गुञ्जति / जुगुञ्ज / गुञ्जितम् / गुञ्जा // . 154 लज 155 लजु 156 तर्ज भर्त्सने / लजति / ललाज // लजु / उदित्त्वाद् नागमे लअति / ललल / लजुण भासार्थः लञ्जयति // तर्ज। तर्जति। ततर्ज। तर्जिण सन्तर्जने तर्जयते // 1 "केऽनिटमजोः कगौ घिति” 4 / 1 / 11 // इत्यत्र के परे अनिट्धातोर्गत्वविधानात् // २"नन्यादिभ्योऽनः" 5 / 1152 // 3 "सूयत्यायोदितः"४।२।७०। इत्यनेन // 4 "आदितः // 41 इति सूत्रेण इडभावे "र-वर्णानो -12 / 3 / 63 // इति णत्वे च //