________________ . परस्मैधातवः 122-141] स्वोपलं धातुपारायणम् / / ते सेट्त्वाद् न गत्वम् / उणादौ "भी-वृधि-"(उ० 387) इति रे वज्रः॥ ब्रज / ब्रजति / "वद-ब्रज-" 4 / 3 / 48 / इति वृद्धौ अब्राजीत् / यङि वाव्रज्यते / यङ्लुपि वावक्ति वाव्रजीति / ध्यणि परिव्राज्यम् , क्ते सेट्त्वाद् न गत्वम् / णके परिव्राजकः। “दिद्युद्दद्-" 5 / 2 / 83 // इत्यादिनिपातनात् क्विपि परिव्राट् / “आस्यटि-" 5 / 3197 / इति क्यपि ज्या प्रव्रज्या परिव्रज्या। “गोचर-" 5 / 3 / 131 // इति निपातनाद् घे व्रजन्ति. तस्मिन्निति व्रजः / वज व्रजण मार्गणसंस्का- 6 रगत्योः वाजयति ब्राजयति॥ पस्ज। “षः सो-" 23 / 98 / इति षस्य षत्वे "सस्य शषौ” १॥३६१इति सस्य शत्वे "तृतीयस्तृतीय-"१।३।१९। इत्यासन्नत्वाच्छस्य जे सज्जति / गौ सनि षोपदेशत्वात् "णि-स्तोरेवा-" 2 // 3 // 37 // इति षत्वे सिषजयिषति / “णि-स्तोरेवा-" 2 / 3 / 37 / इति नियमात् सनि षत्वभूते न षत्वम् , सिसजिषति / अचि सज्जः / ते सज्जितः / कचिदात्मनेपदमपि दृश्यते 10 प्रकृतेर्गुणसम्मूढाः, सज्जन्ते गुणकर्मसु / [भगवद्गीता अ० 3 श्लो० 29] 'सज्जमानमकार्येषु" इति // 139 अज क्षेपणे च / चकाराद्तौ / अजति / "अघक्यप्-" 4 / 4 / 2 / इति वींभावे विवाय, संक्विाय / “त्रने वा" 1 / 4 / 3 / वींभावे प्राजिता प्रवेता, अत्रानुस्वारेत्त्वात् नेट् , पाजनो दण्डः, प्रवयणो दण्डः / “क्रियाव्यति-"३।३।२३। इति गत्यर्थवर्जनाद् गतौ नात्मनेपदम् , व्यत्यजन्ति प्रामम् ; 15 क्षेपणे त्वात्मनेपदमेव व्यत्यजन्ते / “अघञ्-" 44 / 2 / इत्यशिद्विषये एव वीभावे व्यञ्जनादित्वाद् यपि, वेवीयते / घादिवर्जनाद् घनादौ वींभावाभावः / घभि समाज छात्राणाम् , उदाजः खगानाम् / "समज-" 5 / 3 / 99 / इति क्यपि समज्या सभा / “समुदोऽजः-" 5 / 3 / 30 / इत्यलि समजः पशुसहः, उदजः पशुप्रेरणम् / अचि अजः अजा / “ललाट-वात-" 5 / 1 / 125 / इति खशि वातमजन्ति वातमजा मृगाः। “गोचर-सञ्चर-" 5 / 3 / 131 // इति निपातना धे व्यजः / उणादौ "प्या-पी-7 20 (उ० 258) इति ने वेनः प्राज्ञः / “यम्यजि-"(उ० 288) इत्युने वयुनश्चन्द्रः / “विपिना-जिना-" (उ० 284) इति निपातनादिने अजिनम् / “ऋज्यजि-" (उ० 388) इति किति रे वीरः / म्यविरादिनिपातनादिरे अजिरम् / “मी-ज्यजि-" (उ० 439) इति सरे वेसरः / “पादाचात्यजिभ्याम्" (उ० 620) इति णिदिः आजिः; पदाजिः पत्तिः, "पदः पादस्याऽऽज्यातिगोपहते" 332 / 95 / इति पादस्य पदादेश आजीति निर्देशाच व्यादेशाभावः। “अजि-सा-" (उ० 768) इति णौ वेणुः। 25 "अन्ज्यजि-" (उ० 966) इत्यसि गादेशे च अगः क्षेमम् // 140 कुजू 141 खुजू स्तेये / कोजति, खोजति। ऊदित्त्वात् क्त्वायां वेटो, कुक्त्वा, खुक्त्वा; सेटि क्त्वि "वौ व्यञ्जना-"४।३।२५। इति क्त्वो वा कित्त्वे कुजित्वा कोजित्वा, खुजित्वा खोजित्वा / / 1 "स्थविर-पिठिर-स्फिरा-ऽजियदयः" (उ०१७) इति सूत्रम् //