________________ आचार्यश्रीहेमचन्द्रविरचितं [भुवादिगणे पस्वामिभवाविशेषत्वात् सकर्मकत्वा-ऽकर्मकत्वयोश्च विवक्षानिबन्धनत्वात् , तथा च जयति जिन इत्यकर्मकः, जयति शत्रूनिति सकर्मकः / अत एव कौशिकोऽपि नामुमध्यैष्ट / अन्ये तु जिंस्थाने जृ इति ऋकारान्तं पठन्ति, जरति, जर्ता // 10 विं क्षये। क्षयति। कर्मकर्तरि तु क्षीयते / यद्वामनः-"क्षीयते इति कर्मकर्तरि" / अनुखा। रेत्त्वात् क्षेता / कर्तरि ते "H क्षी चाध्यार्थे" 4 / 2 / 74 / इति तस्य नत्वे क्षीइत्यादेशे च क्षीणः / भावे के क्षितमनेन / वित् निवास-गत्योः इत्यस्य तु क्षियति / क्षिपर हिंसायाम् इत्यस्य तु क्षिणाति / ऐश्वर्येऽप्ययमित्येके, ऋभून् क्षयति-ईष्टे ऋमुक्षाः // 116 12 1 13 हूँ 14 \15 खं गतौ / पञ्चाप्यनुखारेतः / अयति / ___ "उदयति हि स ताह कापि सन्दर्भरीतौ"। 10 उदयति विततो रश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्। / __ वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् // [शिशुपाल० 4-20] एता। ईण्क् गती, इक् स्मरणे, इंडक् अध्ययने इत्येषां तु एति प्रामम् , मातुरध्येति, शाखमधीते इति भवति // . इतः परं षडुदन्ता:-- . . 15 दं। दवति / दोता। "वा ज्वलादि-" 5 / 1 / 62 / इत्यादिना णे दावः, पोऽचि दवः / उदन्तत्वाद् "युवर्ण-" 5 / 3 / 28 / इत्यादिनाऽलि दवः / सम्पूर्वाद् "यु-दु-द्रोः" 5 / 3 / 59 / इति पनि सन्दावः / दुदुंट् उपतापे दुनोति // हुँ / द्रवति / द्रोता / द्रोष्यति / "स्क्र-"४।४।८॥ इत्यादिनाऽनुस्वारेतामपि परोक्षायामिड्विहितस्तत्र द्रुवर्जनादिड् नास्ति, द्रोथ दुर दुद्रुम / “णि-श्रि-"३।४।५८। इत्यादिना के अदुद्रुवत् / णौ "चल्याहारा-" 3 / 3 / 108 / इत्यादिना फलवत्कर्तर्यपि “ईगितः" 20 363295 / इत्यात्मनेपदापवादे परस्मैपदे द्रावयति अयः / सन्परे णिगि "श्रु-सु-तु-अ-प्लु-च्योर्वा" 4 / 1 / 61 / इति पूर्वोकारस्यत्वे विद्रावयिषति, पक्षे दुद्रावयिषति / सन्वद्रावात् डंपरे णौ अदिद्रवत् अदुद्रवत् / “वेश्च द्रोः" 5 / 2 // 54 // इति घिनणि विद्रवणशीलो विद्रावी, एवं प्रदावी। उत्पूर्वाद् "यु-पू-द्रोर्ष" 5 / 3 // 54 // इति पनि उद्मावः / सम्पूर्वाद् "यु-दु-द्रोः" 5 / 3 / 59 / इति पनि सन्द्रावः। "प्रात् सु-दु-स्तोः" 5 / 3 / 67 / प्रद्रावः। केवलादुदन्तत्वादेति वा द्रवः / उणादौ "द्रोर्वा"(उ० 187) 25 इति णे दुणा ज्या, कित्त्वाभावपक्षे द्रोणः, गौरादिपाठात् दुणी द्रोणी / “दु-ह-वृहि-दक्षिभ्य इण" (उ० 194) इतीणे द्रविणम् / “घु-दुभ्याम्" (उ०७४४) इति डिदुः, दुस्तरुः / "हरि-पीत-"(उ० 745) इत्यादिना हुः, हरिद्वः ऋषिः, पीतदुर्देवदारुः॥ शुं / शवति / शोता / शोष्यति / अचि 1 अस्य श्लोकस्य प्रथम पादं मुक्त्वा अन्यानि खे० संपा 1 वा. नास्ति // 2 दवा खे० संपा१ वा. सं१ सं२। मत्र "नियमानुपसर्गाद्वा " 5360 / इति सूत्रे अनुपसर्गाद घश्विकल्पनात् "युवर्ण30वृ--" 520 इति अल् दवः, पक्षे दावः, प्रद्रावः सन्नावः इत्यादिषु विधानबलाम वैकल्पिकत्वम् // 3 "गौरादिभ्यो मुख्याद् जोः" 2 // 19 //