________________ परस्मैधातवः 5-9] स्वोपझं धातुपारायणम् / इति णितीनि प्रस्थास्यते प्रस्थायी, “वर्त्यति गम्यादिः" 5 / 3 / 1 // इति भविष्यति साधुः। “परमात् कित्" (उ० 925) इति कितीनि परमे पदे तिष्ठतीति परमेष्ठी, भीरुष्ठानादित्वात् षत्वं सप्तम्यलुप् च / षोपदेशः “षः सोऽष्टयै-ष्ठिव-प्वष्कः” 2 / 3 / 98 / इति सादेशार्थः / तथा च कृतत्वात् सस्य तिष्ठासतीत्यादौ "नाम्यन्तस्था-" 2 / 3 / 15 / इत्यादिना षत्वं सिद्धं स्थातेत्यादौ सकारश्रवणं च // 6 म्नां अभ्यासे / अभ्यासः पारम्पर्येण वृत्तिः / "श्रौति-"४।२।१०८। इत्यादिना शिति मनादेशे / आमनति / "आतो णव औः" 4 / 2 / 120 / मम्नौ। अनुस्वारेत्त्वाद् नेट् , नाता / घनि आम्नायः॥ 7 दांम् दाने। मकार इत् अप्रयोगित्वात् , स च "श्रौति-" 4 / 2 / 108 / इत्यादौ विशेषणार्थः / तथा च शिति यच्छादेशे प्रयच्छति / दास्या सम्प्रयच्छते, अत्र “दामः सम्प्रदानेऽधम्र्ये आत्मने च" 2 / 2 / 52 / इति सम्प्रदानात् तृतीयाऽऽत्मनेपदं च / “अवौ दा-धौ दा" 3 / 35 / इति दासज्ञा, क्ये "ईर्व्यञ्जनेऽयपि" 4 / 3 / 97 // इति ईत्वे दीयते / “पिबैति-" 4 / 3 / 66 / इत्यादिना सिचो लुपि 10 अदात् / णवि ददौ / “प्राद ज्ञश्च" 5 / 1 / 79 / इति डे अन्नं प्रयच्छतीति अन्नप्रदः / "स्वरादुपसर्गादस्तिकित्यधः" 4 / 4 / 9 / इति नादेशे प्रत्तम् / “दस्ति" 3 / 2 / 88 / इति वेर्दीर्घत्वे वीत्तम् / “दत्" 4 / 4 / 10 / इति ददादेशे दत्तः। “दा-थे-सि-" 5/2 / 36 / इत्यादिना रौ यच्छतीत्येवंशीलो दारुः। "भुजि-पत्यादिभ्यः कर्मापादाने" 5 / 3 / 128 / इति कर्मण्यनटि दीयते तदिति दानम् / अनुस्वारेत्त्वात् सम्प्रदाता / “दा-भाभ्यां नुः" (उ० 786) इत्यौणादिके नौ दानुः // 15 इतः परमिदन्ताश्चत्वारः 8 जिं 9 जिं अभिभवे / जयति / “परा-वेर्जेः"३।३।२८। इत्यात्मनेपदे पराजयते विजयते / "जेर्गिः सन्-परोक्षयोः” 4 / 1 / 35 / इति म्यादेशे जिगीषति, जिगाय। “णौ क्री-जीङः" 4 / 2 / 10 / इत्यात्वे जापयति / "क्षय्य-जय्यौ शक्तौ"४।३।९०। इति निपातनात् जेतुं शक्यो जय्यः, जेयोऽन्यः। "जि-विपू-न्यो हलि-मुञ्ज-कल्के" 5 / 1 / 43 // इति क्यपि जित्या जित्यो वा हलिः, जेयमन्यत् / 20 "भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि" 5 / 1 / 112 / इत्यणोऽपवादे खे धनञ्जयः। “भू-जेः ष्णुक्"५।२॥३०॥ जयतीत्येवंशीलो जिष्णुः / “जीण-ह-क्षि-" 5 / 2 / 72 // इत्यादिनेनि जयी / "मृ-जीण-नशष्ट्वरप्" 5 / 2 / 77 / जित्वरी / अनुस्वारेत्त्वाद् इडभावे जेता। उणादौ "कृ-वा-पा-जि-" (उ० 1) इत्यादिनोणि जायुः पित्तम्। “त-जि-" (उ० 221) इत्यादिनाऽन्ते जयन्तः। “चि-जि-" (उ० 392) इति रे दीर्धे च जीरोऽजाजी, लत्वे जीलश्चर्मपुटः / “ऋ-शी-" (उ० 906) इत्यादिना कनिपि जित्वा 25 धर्मः, जित्वानौ / स्त्रियां “णस्वराऽघोषाद् वनो रश्च" 2 / 4 / 4 / इति ड्यां रत्वे च जित्वरी नदी॥ जिं / जयति / जिज्राय जिज्रियतुः जिनियुः / अनुस्वारेत्त्वात् नेट् नेता // केचित्तु जिं जये इत्यकर्मकत्वार्थ पृथक् पठन्ति जयः सर्वोत्कर्ष इति च व्याचक्षते, तदयुक्तम् ,उत्क 1 नेट् वा० नास्ति // 2 "अप्रयोगीत" 11 // 37 // था. पा०२