________________ आचार्यश्रीहेमचन्द्रविरचितं [भुवादिगणे सुखम् , संवेद्यते इत्यर्थः / अर्थान्तरे हि वर्तमानस्याकर्मकस्यापि सकर्मकत्वं भवति / "काला-ऽध्व-भावदेश-"२।२१२३॥ अपेक्षया च सर्व एव धातवः सकर्मकाः / मासमास्ते, क्रोशो गुडधानाभिर्भूयते, गोदोहं खपिति, कुरून् शेते / अर्थान्तरवृत्यादिना च सकर्मकस्याप्यकर्मकत्वं भवति / यदाह धातोरान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् / प्रसिद्धरविवक्षातः, कर्मणोऽकर्मिका क्रिया.॥ इति / / अर्थान्तरे वर्तमानाद् धातोः सकर्मकस्याप्यकर्मिका क्रिया भवति, यथा भारं वहति, उद्य च्छतीत्यर्थः; नदी वहति, सवतीत्यर्थः। कर्मणो धात्वर्थान्तःप्रवेशादकर्मकत्वम् , यथा जीव प्राणधारणे जीवति, हदि पुरीपोत्सर्गे हदते, अत्र प्राण-पुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते / कर्मणः प्रसिद्धत्वात् , यथा देवो वर्षति / न पुनरत्र, रक्त वर्षति, पार्थः शरान् वर्षति / कर्मणोऽविवक्षितत्वात् , यथा नेह पच्यते, नेह मुज्यते / कर्माविवक्षा चौदासीन्यनिवृत्तिमात्रपरतया प्रयोगात् , 10 यथा 'किं करोति' इति प्रश्ने 'पचति पठति' इत्यादि प्रत्यवस्थानम् , न तु भवति विद्यते वेत्यादि, तेषामपर्यनुयोज्यत्वात् / यत्तु 'किं करोति' इति प्रश्ने 'भवति' इत्युत्तरं तत् क्रियाख्यकर्मनिबन्धनम् , न तु बाधकर्मापेक्षं भवनम् , करोतीत्यर्थावगमात् / क्रिया हि सर्वधातूनामान्तरं कर्म, अत एव क्रियाविशेषणानां कर्मत्वं स्मरन्ति। नन्वेवं "क्रियाविशेषणात्" 2 / 2 / 41 // इति योगो व्यर्थः, "कर्मणि" 2 / 2 / 40 / इत्येव द्वितीया15 सिद्धः, नैवम् , आन्तरकर्मणा सकर्मणोऽप्यकर्मककार्यप्रतिपयर्थत्वाद् योगस्य, तेन 'सुखं सुप्त' इत्यादी कर्तरि क्तः सिद्धः, 'सुखं स्थाता' इत्यादौ कृन्निमित्ता षष्ठी न भवतीति / अत एव सकर्मका-कर्मकव्यवहारो द्रव्यकर्मनिमित्त उच्यते / यदाह सकर्मका-ऽकर्मकत्वं, द्रव्यकर्मनिबन्धनम् / इति / भू इति निरनुखारस्य पाठाद् "एकस्वरादनुखारेतः” 14 / 56 / इत्यनिट्त्वं न भवति / सेट्त्वा20 ऽनिट्वे च यद्यपि "स्ताद्यशितोऽत्रोणादेः-"१।४।३२। इति प्रत्ययस्याऽऽदौ विधानात् प्रत्ययस्यैव, तथाप्युपचारेण धातोरिति / व्यत्यभविष्ट, व्यतिभविषीष्ट, भविता, भविष्यति, अभविष्यत् , भवितव्यम् , भविता, भवितुम् / “उवर्णात्" 4 / 4 / 58 / इतीप्रतिषेधात् भूतः, भूतवान् , भूतिः, भूत्वा / एवं पदस्य साक्षात्प्रकृतिरुदाहृतः / परम्पराप्रकृतिस्तूदाहियते---णिगि भवन्तं प्रयुक्ढे भावयति, करोतीत्यर्थः / यदाहुः नित्य न भवनं यस्य, यस्य वाऽनित्यभूतता। न तस्य क्रियमाणत्वं, खपुष्पा-ऽऽकाशयोरिव / तेन भूतिषु कर्तृत्वं, प्रतिपत्नस्य वस्तुनः / प्रयोजकक्रियामाहुर्भावनां भावनाविदः // इति / 1 यदा संरः // 2 सिद्धार्थत्वात पाचदि। / धातोरपि / न्य' से. 80 संपा। प्र• // 5 मावानां मा सं१ तपा।