________________ परस्मैधातवः 1] स्वोपवं धातुपारायणम् / .... वतीति भागागतिः / उद्भवतीति उद्भेदः / प्रतिभवतीति लमकत्वमिति / __अथवाऽर्थान्तरेष्वपि क्रियासामान्यरूपा सत्ताऽनुवर्तत एवेति सत्ताया एवोपादानं कृतम् / सत्ताव्यतिरेकीणि अर्थान्तराणि खरविषाणायमानानि स्युः / “षड् भावविकाराः" इति वचनाच भावः सत्ता सामान्यरूपा क्रियेत्यवसीयते। यदाहुँः__“जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति षड् भावविकारीः" इति। अपि च सर्वेऽपि खलु धातवस्तेन तेनोपाधिना सत्तामेवावच्छिद्यावच्छिद्य विषयीकुर्वन्तीति सा क्रियासामान्यमित्युच्यते। तथा च "क्रियार्थो धातुः" / 3 / 3 / 3 / इति सुवो धातुत्वम् / ____ आत्मनेपदोभयपदानुबन्धाभावाच "शेषात्-"३३३१००। कर्तरे परस्मैपदम् अपवादाभावाच्च औत्सर्गिकः शव , भवति भवतः भवन्ति, भवसि भवथः भवथ, भवामि भवावः भवामः / एवं सप्तम्यादिषु / शतरि भवन् / “क्रियाव्यतिहारे-"३।३।२३। "भावकर्मणोः" 3 / 4 / 68 / चाऽऽत्मनेपदं 10 च। व्यतिभवते व्यतिभवेते व्यतिभवन्ते / एवं सर्वत्र / आनशि व्यतिभवमानः / भावे चैत्रेण भूयते / भावस्यासत्त्वरूपत्वेन सङ्ख्याधभावाद् द्विवचन बहुवचने न भवतः / एकवचनं तु न व्यादिप्रतिपक्षकत्वसङ्ग्यानिबन्धनम् , किन्त्वमेदैकत्वनिबन्धनम् / "एकवचनमुत्सर्गः करिष्यते” इति हि भाष्यम् / अत एव युष्मदस्मकर्तृकत्वेऽपि द्वितीय-तृतीयत्रिके न भवतः / त्वया भूयते, मया भूयते / कर्मणि अनुभूयते 1 "भावस्य क्रियायाः षट् प्रकारा इत्यर्थः / तेषु चास्तिः पठित इति तस्यापि कियात्वमित्यर्थः / अथवा15 भावस्य सत्ताया एते प्रकाराः / सत्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यरूपा जन्मादिरूपतयाऽवभासते।" इति प्रदीपे कैयटः // 2 “भावः स्वभावेऽभिप्राये, चेष्टासत्तात्मजन्मसु / क्रियालीलापदार्येषु, बुधजन्तुविभूतिषु / " इति विश्वप्रकाशे वान्तवर्गे 14 श्लोकः // 3 वार्ष्यायणयः॥ ___4 एषां स्वरूपं वाक्यपदीये क्रियासमुद्रशे 26 श्लोकसत्कहेलाराजकृतप्रकीर्णकप्रकाशाख्यव्याख्यागतं यथा"जन्म केनचिद् धर्मेणाविर्भावः। तत्र सव्यापार पूर्वोत्तरवस्थात्यागावाप्स्योरन्तराले वर्तमानं जायते इत्यभिधीयते / 20 वस्त्वात्मलाभोन्मुखं समासादितरूपं तु सध्यापारमिवास्तीत्याख्यातपदेनाभिधीयत इत्यस्तित्वमात्मलाभपर्यायमाविर्भावरूपस्य जन्मन एवोत्तरोऽवस्थाविशेषः / तथा च निरुक्तकारः 'जायत इति पूर्वभावस्यादिमाचष्टे' इत्याह / पूर्वभावस्य विपरिणामादेर्व्यावहारिकात् प्रथमस्यास्तित्वस्यादिर्जन्म इत्यर्थः / तथास्तीत्युत्पत्रस्य सत्त्वस्यावधारणमाचष्टे इत्युत्पन्नस्य सत्त्वस्पेति जन्मोत्तरकालतामेवाभिव्यनक्ति / अवधारणं निश्चयः / अस्त्यात्मानं भावयति / अस्याश्च भाव्यमानायाः सत्तायाः सन्तानेन प्रवृत्तः पूर्वोत्तरक्षणनिरोधोपजनाभ्यां सङ्ग्रहः / यावच्च सदृशसन्तानप्रवाहस्तावदलक्षितविवेको भावोऽस्तीत्य-25 बधारणार्थमभिधीयते / अस्त्यात्मानं बिभर्येव न वंसत इत्यर्थः / विसदृशसन्तानोपजननेऽर्थभेदेन विपरिणमत इति ध्यपदिश्यते तत्त्वादप्रच्यतं वस्तु / यदाह निरुतकार:-'विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद विकारमाचष्टे इति / अत्रैवोपचयविवक्षायां वर्धत इति / यदाह निरुक्तकृत्-वर्धत इति स्वानाभ्युच्चयं संयोगिनां पदार्थानामाचष्टे' इति / वर्धते शरीरेण, वर्धते विज(च)येन इति / अपचयविवक्षायां तु पूर्वमपक्षीयत इति तदनन्तरं विनश्यतीति तिरोभावामिधानमवस्थाद्वयेन / यदाह स एव–'अपक्षीयत इति स्वाहापचयं संयोगिनामर्थानां वाचष्टे, विन-30 स्वतीति पूर्वभावस्यान्तमाचष्टे" इति। विशेषार्थिना निरुतभाष्यं विलोकनीयम् // ..'5 यथा च वा० // 6 “प्रायोवादोऽयम् / अन्यथा 'उष्ट्रासिका भास्यन्ते हतशायिकाः शय्यन्ते' इति मान्ये धावनिर्देशे ज्युलि कृदभिहितो भावो द्रव्यवत्प्रकाशते इति आसिकाः शायिकाः इत्यत्र बहुवचनसिखालि मास्यन्ते प्राप्यन्ते त्यत्र तम्न सिध्येत" इति तत्वबोधिन्याम् भावकर्मप्रक्रियाव्याख्याने // ७कत्वेऽपि सं. 2 // 86