________________ परस्मधातवः 1] स्वोपर धातुपारायणम् / * "भावयेज्ज्योतिरान्तरम्" इत्यनेकार्थत्वाद् ध्यायेदित्यर्थः / यहि बोभूयते / यल्लुपि बोभवीति बोभोति / सनि बुझ्षति / समन्ताणिगि बुम्पयति / यबन्ताणिगि बोभ्ययति / यङ्लुबन्ताणिगि बोभावयति / णिगन्ताणिगि भावयति / णिगन्तात् सनि बिभावयिषति। ("तुमर्हादिच्छायां सन् )अतत्सनः"३।४।२१। इति वचनादिच्छासमन्तात् सन् नास्ति / ("व्यञ्जनादेः) एकस्वराद्" 3 / 4 / 9 / इति वचनात् सन्-यङ्यङ्लुबन्तेभ्योऽनेकस्वरेभ्यो यद् नास्ति / विशेषास्तु—“ळ्यर्थे भृशादेः स्तोः" 3 / 4 / 29 / इति क्यकि अभृशो भृशो भवति भृशायते, अत्र भवत्यर्थोपगृहीते च्छ्यर्थे क्यविधानम् , अत एव क्यन्तस्य क्रियार्थत्वेन धातुत्वं भवतेश्चाप्रयोगः / “भूङः प्राप्तौ णि" 3 / 4 / 19 / भावयते पदम्, प्रामोतीत्यर्थः, पक्षे उत्साहाद् भवते लक्ष्मीम् / “धातोरनेकस्वरादाम् परोक्षायाः कुम्वस्ति चानु तदन्तम्" 3 / 4 / 46 // चकासाम्बभूव / "भू-स्वपोरदुतौ" 1170 बभूव, अत्र स्वरविधेः प्रागेव द्विर्वचने वृद्धावावादेशे च "भुवो वः 10 परोक्षा-ऽद्यतन्योः 4 / 2 / 43 / इत्युपान्त्यस्योत् / “पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्" 4 / 3 / 66 / अभूत् , अत्र "भवतेः सिलपि" 4 / 3 / 12 / इति गुणप्रतिषेधः / अभूवन् , अत्र “सिज्विदोऽभुवः" 4 / 2 / 12 / इति पुस् न भवति / “न ख्या-पूग-भू-भा-कम-गम-प्याय-वेपो णेश्च" 239 प्रभवनम् प्रभावना, अन "स्वरात्" 2 / 385 / इति "णे" 2 / 3 / 88 / इति च णत्वं प्राप्तं न भवति / “भव्य-गेय" 5 / 1 / 7 // इत्यादिना कर्तरि ये भव्यः पुमान् , पक्षे भावे भव्य- 16 मनेन / आवश्यक व्यणि भाव्यम् / अवश्यभाव्यमनेन “कृत्येऽवश्यमो-"३।२।१३८। इति मो लक् / “हत्या-भूयं भावे" 5 / 136 / ब्रह्मणो भवनं ब्रह्मभूयम् / “प्रहादिभ्यो णिन्" 5 / 1 / 53 // परिभवतीति परिभावी, परिभवी पक्षे, इस्वत्वं गणनिपातनात् , भूते त्वभिभावी / “वा ज्वलादि-दुनी-भू-ग्रहा-ऽऽसोर्णः" 5 / 1 / 62 / भवतीति भावः, पक्षे अचि भवः। “नम-"५।१।१२८। इत्यादिना खिष्णु-खुकयोः अनाढ्य आढ्यो भवति आढ्यम्भविष्णुः आढ्यम्भावुकः / “भावे चाशिताद्भुवः.20 खः" 5 / 1 / 130 / आशितस्व-उसस्य भवनमाशितम्भवो वर्तते, आशितो भवत्यनया आशितम्भवा पाली / “प्राज्यलम्-" 5 / 2 / 28 / इत्यादिना इष्णो भवतीत्येवंशीलो भविष्णुः / “भू-जेः ष्णुक" 5 / 2 / 30 / भूष्णुः / “श-कम-" 5 / 2 / 40) इत्यादिना उकणि भावुकः / “जीण-इ-क्षि-" 5 / 2 / 72 / इत्यादिना इनि परिभवी / “विद्युद्-दहद्-"५।२।८३॥ इत्यादिना किपि मित्रं भवतीति मित्रमः, धनिक-धारकयोरन्तरे प्रतिभवतीति प्रतिमः / "श-सं-स्वयं-वि-भाद् भुवो दुः" 5 / 29 2285 / शम्मुः सम्मुः स्वयम्भुः विमुः प्रभुः / “भू-भ्यदोऽ" 5 / 3 / 23 / प्रभवः अनुभवः / प्रभावाधास्तु बाहुलकाद् पनि प्रादिसमासो वा / “भुवोऽवज्ञाने का" 5 / 3 / 64 / परिभावः, पक्षे अलि परिभवः / “भ्यादिभ्यो वा" 5 / 3 / 115 / इति किपि भवत्यस्याः सर्वमिति भूः, पक्षे तौ मृतिः / “च्च्य] काप्याद् म्-कगः" 5 / 3 / 140 / कृच्छ्रेणाऽनाट्येनाऽऽन्येन भूयते दुराढ्यम्भवं 1 "व्यज्यावश्यके" 1115 // इति हैमसूत्रम् // 2 मासे या तपा० // 3 पक्षे "भ्यादिभ्यः" 30 // 39 // इति को वा. प्रतौ मंशोधकेन बर्षितम् //