________________ 354 ] आचार्यश्रीहेमचन्द्रविरचिते [पा० 396'396 श्रथ बन्धने च' / चकाराद् हिंसायाम् / मोक्षणे इत्येके / श्राथयति, अथति / अयं श्रन्थप हिंसार्थः इत्यन्ये, श्रन्थयति, श्रन्थति // . ... अथ दान्ताश्चत्वारः // _ '397 वदिण् भाषणे'। सन्देशने इत्यन्ये / वादयति, संवादयति / पक्षे / इदिवादात्मनेपदे वदते / क्ये वद्यते / वद व्यक्तायां वाचि [ 11998 ], वदति / यजादित्वाद् वृति उद्यते // ... 398 छदण अपवारणे' / छादयति, छदति / छदणू संवरणे [9 / 88 ], ऊर्जने घटादित्वाद् हुस्वे छदयति // ___"399 आङः सदण गतौ' / आङः परः सद इत्ययं धातुः गतावर्थे युजादिः, आसादयति, आसीदति / आसदति इत्येके / अनुस्वारेन्चान्नेट इत्यन्ये, आसत्ता, आसात्सीत् / आङोऽन्यत्र सीदति, गतेरन्यत्र सीदति / पढें विशरणादौ [11966 ], असदत् // '400 छुदण सन्दीग्ने'। छर्दयति, छर्दति / "कृतचत." 4 / 4 / 50 इत्यत्र तृदसाहचर्येण रुधादेरेव ग्रहणात् सादाविड्विकल्पाभावे छर्दिष्यति / ऐदिदयमित्येके / "डीयश्वि०" 4 / 4 / 61 इति क्तयोनेंट् कृष्णः, कृष्णवान् / ऊकृढपी दीप्तिदेवनयोः [6 / 8 ], छुत्ते, कृत्ति // अथ धान्तः // '401 शुन्धिण शुद्धौ' / शुन्धयति, शुन्धते / अनिदिदित्येके, शुन्धति / ते शुन्धितम् / शुधंच शौचे [ 3 / 40 ], शुध्यति // ___ अथ नान्तौ // '402 तनूण श्रद्धाघाते' / श्रद्धोपकरणयोः इत्यन्ये / तानयति, तनति / क्त्वि ऊदिच्चाद् वेट् , तान्त्वा, तनित्वा / वेट्त्वात् क्तयोनेंट् , नितान्तः, नितान्तवान् / " तन्व्यधि०" 5 / 1 / 64 इति णे तानः श्रद्धाहीनो जनः / तनूयि विस्तारे