________________ 409 ] धातुपारायणे चुरादयः (9) [ 355 [71 ], तनुते, तनोति / ते ततः / “उपसर्गाद् दैध्ये' उपसर्गपूर्वः तनू दैर्येऽर्थे युजादिः, आतानयति, वितानयति, प्रतानयति; आतनति, वितनति, प्रतनति / अन्यत्र तनोति / वन श्रद्धोपहिसनयोः इति चान्द्रं पारायणम् // . '403 मानण् पूजायाम् ' / मानयति, मानति / अयं मनणू इत्येके, मानयति, मनति / मानि पूजायाम् [ 11749 ], मीमांसते // अथ पान्तास्त्रयः // '404 तपिण दाहे ' / तापयति, पक्षे इदित्वाद् आत्मनेपदे तपते / तपं सन्तापे [ 1 // 333], तपति / तपिच औश्चर्ये वा [ 3 / 124 ], तप्यते // ___405 तृपण प्रीणने ' / सन्दीपने इत्येके / तर्पयति, तर्पति / ते तृपितम् / अयं चूतण दृपण सन्दीपने इत्येके, चर्तयति, चर्तति; दर्पयति, दर्पति / दृपोच हर्षमोहनयोः [ 3 / 47 ], दृप्यति / तृपौच प्रीती [ 3 / 46 ], तृप्यति / तृपट प्रीणने [4 / 23], हप्नोति // ' 406 आप्लण लम्भने ' / लम्भनं प्राप्तिः / आफ्यति, आपति / लदिचादकि आपत् / क्ते आपितम् / " वाऽऽमोः” 4 / 3 / 87 इति यपि णेर्वाय अस्यापीत्येके, प्रापय्य प्राप्य वा गतः / आप्लंट व्याप्तौ [4 / 22 ], आप्नोति // अथ भान्तः // 407 दृभैण् भये ' / दर्भयति, दर्भति / ऐदिच्चात् क्तयोर्नेट, दृब्धः, दृब्धवान् / दृभैत् ग्रन्थे [ 5 / 75 ], दृभति // अथ रान्तः // " 408 ईरण क्षेपे' / गतावित्येके / क्षेपः प्रेरणम् / ईरयति, ईरति / ईरिक गतिकम्पनयोः [ 2 / 57 ], ईते // अथ षान्ताश्चत्वारः // ___409 मृषिण तितिक्षायाम् ' / मर्षयति, पक्षे इदिवादात्मनेपदे मर्षते / मृष सहने च [ 11528 ], मर्षति / मृषीच तितिक्षायाम् [3 / 141 ], मृष्यते, मृष्यति / मृषण क्षान्तौ [ 9 / 354 ], अदन्तः, मृषयति / णिचोऽनित्यत्वात्