________________ 350 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 368 अथ रान्तास्त्रयः // 368 शूर 369 वीरणि विक्रान्तौ ' / शूरयते / डे अशुशूरत' / अचि शूरः / शूरैचि स्तम्भे [ 3 / 130 ], शूर्यते / णिगि डे अशुशूरत // ___369 वीरणि ' / वीरयते / हे अविवीरत' / अचि वीरः / “य एच्चा०" 5 / 1 / 28 इति भावे ये वीर्यम् // '370 सत्रणि संदानक्रियायाम् ' / सन्तानक्रियायामित्येके / सत्रयते शत्रुन् / डे अससत्रत' / सनि अपोपदेशत्वात् षत्वाभावे सिसत्रयिषते // ' अथ लान्तः // '371 स्थूलणि परिवहणे' / परिवहणं पीनत्वम् / स्थूलयते / डे अतुस्थूलत' / सनि अपोपदेशत्वात् षत्वाभावे तुस्थूलयिषते / अचि स्थूलः // .. अथ वान्तः // ' 372 गर्वणि माने' / गर्वयते / उ अजगवत' / अलि गर्वः / गर्व दर्षे [ 11462 ], गर्वति // ____ अथ हान्तौ // : 373 गृहणि ग्रहणे' / गृहयते / उ अजगृहत / "शीश्रद्धा० " 5 / 2 / 30 इत्यालो गृहयालुः / क्ते गृहितम् // ' 374 कुहणि विस्मापने' / कुहयते / डे अचुकुहत / णके कुहकः / भिदायङि कुहा नाम नदी / “णिवेत्ति० " 5 / 3 / 111 इत्यने कुहना दम्भः / उणादौ " मिवमि० " ( उ० 51 ) इत्युके कुहुकम् आश्चर्यम् / " पकाहृषि० " ( उ० 729) इति किद् उ, कुहुः नष्टचन्द्राऽमावास्या / "नृतिशधि०" (उ० 844 ) इति किद् ऊः, कुहूः सैव // अवसिता अदन्ताः // 1. त् इति मु० / अत्र आत्मनेपदी धातुः, परस्मैपदिनः रूपं तु अशुद्धम् // 2. 'सत्त्र संतानक्रियायाम्' इति क्षीरस्मामी, (क्षी. त. पृ. 317) // 3. कुहुकः इति मु० //