________________ 367 ] धातुपारायणे चुरादयः (9) . शश .. "362 स्पृहण ईप्सायाम्' / " स्पृहेाप्यं वा" 2 / 2 / 26 इति व्याप्यस्य वा संप्रदानत्वे पुष्पेभ्यः स्पृहयति / अकर्मकत्वाद् “गत्यर्था० " 5 / 1 / 11 इति कर्तरि क्ते पुष्पेभ्यः स्पृहितो मैत्रः, पक्षे पुष्पाणि स्पृहयति / कर्मणि ते पुष्पाणि स्पृहितानि मैत्रेण / डे अपस्पृहत् / “शीश्रद्धा०" 5 / 2 / 37 इत्यालो "आमन्त० " 4 / 3 / 85 इति शेरयि स्पृहाशीलः स्पृहयालुः / “भीषिभूषि०" 5 / 3 / 109 इत्यङि स्पृहा / उणादौ " श्रुदक्षि०" ( उ० 373) इति आय्ये स्पृहयाय्यं घृतम् // अथ क्षान्तः // '363 रूक्षण पारुष्ये' / रूक्षयति / डे अरुरूक्षत् / अचि रूक्षः / अनटि विलक्षणम् / क्त्वो यपि विरूक्ष्य // अथाऽदन्तेष्वेव कुहणिमभिव्याप्याऽऽत्मनेपदिनः, तत्र गान्तः // '364 मृगणि अन्वेषणे'। इदिवाद् " इङितः० " 3 / 3 / 22 इति आत्मनेपदे मृगयते / " मृगयेच्छा." 5 / 3 / 101 इति शे निपातनाद् मृगया / क्ते मृगितम् // अथ थान्तः // '365 अर्थणि उपयाचने' / अर्थयते। पूर्वाचार्यानुरोधाददन्तेष्वस्य पाठः, एवं सत्रिगोरपि / केचित्तु अदन्तपाठवलाद् अतो [4 / 3 / 82] लुकं बाधित्वाऽनुपान्त्यस्यापि “णिति" 4 / 3 / 50 इति वृद्धौ " अतिरी०" 4 / 2 / 21 इति पौ अर्थापयते, सत्रापयते, गर्वापयते इत्याहुः / डे आतिथत / सनि अतिथयिषते / क्ते अर्थितम् / अलि अर्थः / “णिवेत्ति०" 5 / 3 / 111 इत्यने प्रार्थना // अथ दान्तः // - 366 पदणि गतौ' / पदयते / उ अपपदत् / पदिच गतौ [3 / 114], पद्यते / णिगि उपपादयति // अथ मान्तः // 367 संग्रामणि युद्धे' / संग्रामयते शरः / असंग्रामयत / सनि अपोपदेशत्वात् षत्वाभावे सिसंग्रामयिषते / अलि “पुनाम्नि" 5 / 3 / 130 इति आधारे घे वा संग्रामः / क्त्वि संग्रामयित्वा / अयं परस्मैपदीत्येक', संग्रामयति // 1. क्षीरस्वामी, (क्षी. त. पृ. 320) / .