________________ 348] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 355 अथ सान्तास्त्रयः // '355 रसण आस्वादनस्नेहनयोः' / रसयति / उ अररसत् / अलि रसः / उणादौ " बसिरसि०" ( उ० 269 ) इत्यने रसना / रस शब्दे [ 11542 ], रसति / णिगि रासयति / घञि रासः // '356 वासण उपसेवायाम् ' / वासयति / डे अववासत् / णके वासकः / "णिवेत्ति० " 5 / 3 / 111 इत्यने वासना / वसं निवासे [ 1999 ], वसति / वसिक आच्छादने [ 2 / 59 ] वस्ते / वसण स्नेहादौ [ 9 / 194 ], वासयति / * अवीवसत् // __ '357 निवासण आच्छादने' / निवासयति / उ अनिनिवासत् / सनि, . निनिवासयिषति / क्त्वि निवासयित्वा / वासण उपसेवायाम् [ 9 / 356 ], निपूर्वस्य न्यववासत् / क्त्वो यपि निवास्य // अथ हान्ताः पञ्च // '358 चहण कल्कने' / कल्कनं दम्भः / चयति / उ अचचहत् / जिणम्परे णिचि " चहणः शाठये" 4 / 2 / 31 इति वा दीर्घ अचाहि, अचहि, चाहंचाहम् , चहचहम् / “युवर्ण०" 5 / 3 / 28 इत्यलि विचहः / चह कल्कने [11553 ], चहति / णिगि चायति / उ अचीचहत् // '359 महण पूजायाम् ' / महयति / डे अममहत् / " पुन्नाम्नि० " इत्याधारे घे महः उत्सवः / गौरादित्वाद् याम् मही / मह पूजायाम् [11565), महति / उणादौ " महेर्णिद् वा" ( उ० 285) इति इने महिनं राज्यम् , भ्वादेस्तु माहिनं तदेव / " श्रुदक्षि०" (उ० 373 ) इत्याय्ये " आमन्त०" 4 / 3 / 85 इति शेरयि महयाय्यः अश्वमेधः / “मह्यविभ्यां टित्" ( उ० 549) इतीषे महिषः, महिषी / " स्वरेभ्य० " ( उ० 606) इति इः, महिः / “दुहिवृहि०" ( उ० 884) इति कतरि महान् // 360 रहण त्यागे' / रहयति / डे अररहत् / अलि विरहः / रह त्यागे [11554 ], रहति / णिगि राहयति // 361 रहुण गतौ' / उदिचान्ने रहयति / अदन्तत्वबलाद् "अतः" 4 / 3 / 82 इति लुकं बाधित्वा अनुपान्त्यस्याप्यतो " णिति" 4 / 3 / 50 इति वृद्धौ " अतिरी०" 4 / 2 / 21 इति पो रहापयति / रहु गतौ [ 11555 ] रंहति //