________________ % 3D 379 ] धातुपारायणे चुरादयः (9) [ 351 अथ विकल्पितणिचो युजादयः // _ '375 युजण संपर्चने ' / “युजादेः० " 3 / 4 / 18 इति वा णिचि योजयति, पक्षे न्याय्यविकरणः शव योजति / युजिच समाधौ [ 3 / 111 ], युज्यते / युनूंपी योगे [ 64 ]; युङ्क्ते, युनक्ति / 'इह युजादीनां नियतो णिज्विकल्पः, चुरादीनां तु यथादर्शनं णिजनित्य इत्युक्तमेव // अथ ईदन्तास्त्रयः // '376 लीण द्रवीकरणे' / “लियो नोऽन्तः०" 4 / 2 / 15 इति नेऽन्ते घृतं विलीनयति, पक्षे " नामिनो० " 4 / 3 / 51 इति वृद्धौ विलाययति / “लीङ्लिनोर्वा " 4 / 29 इति आत्वमस्याऽपीत्येके, तन्मते वाऽऽत्वे " लो लः" 4 / 2 / 16 इति वा लेऽन्ते घृतं विलालयति; पक्षे " अतिरी." 4 / 2 / 21 इति पौ विलापयति / लीङलिनोऽर्चा०" 3390 इत्यात्मनेपदमात्वं चास्यापि णिच्यपीत्येके, कस्त्वाम् उल्लापयते, आलापयते, अपलापयते / णिजभावे विलयति, लयति / लींच श्लेषणे [3 / 105], लीयते / लीं श्लेषणे [ 8 / 19 ], लिनाति // - '377 मीण मतौ' / मतिर्मननम् / गतावित्यन्ये / माययति, मयति / मींच् हिंसायाम् [ 3 / 103 ], मीयते / मींगा हिंसायाम् [815], मीनाति, मीनीते // ___ 378 प्रीगण तर्पणे ' / गित्वस्य णिजभावे फलवकर्तर्यात्मनेपदार्थत्वाद् गिचि " धूगग्रीगोः" 4 / 2 / 18 इति नेऽन्ते. “शेषात् " 3 / 3 / 100 इति परस्मैपदे प्रीणयति / क्रयादेरेव नामच्छन्त्येके, तन्मते "नामिनो०" 4351 इति वृद्धौ प्राययति', पक्षे प्रयते, प्रयति / प्रींच् प्रीती [3110 ], प्रीयते / प्रींगश तृप्तिकान्त्योः [ 813], प्रीणीते, प्रीणाति // अथ ऊदन्तः // 379 धृगण कम्पने' / “धूगग्रीगोः०" 4 / 2 / 18 इति ने धूनयति / नं नेच्छन्त्येके धावयति', पक्षे गिचात् फलवत्कर्तरि आत्मनेपदम् / अन्यत्र तु " शेषात् " 3 / 3 / 100 इति परस्मैपदम् , धवते, धवति / धूगट कम्पने [4 / 6], धूनुते, धूनोति / धूत् विधूनने [5 / 116 ], धुवति / धूग्श् कम्पने [ 8 / 13 ], धुनीते, धुनाति // 1. तुलना:-क्षो. त. पृ. 305, 308 // 2. क्षीरस्वामी, (क्षो. त. पृ. 307) //