________________ भाचार्यश्रीहेमचन्द्रविरचिते [ धा० 300 अथ ठान्तौ // ___ 300 शठ 301 श्वठण 'सम्यग्भाषणे' / शठयति, श्वठयति / डे अशशठत् , अशवठत् / शठ कैतवे च [1 / 222 ], शठति / णिगि शाठयति / शठ श्वठ चतुण संस्कारगत्योः [ 9 / 49, 50, 51 ], शाठयति, श्वाठयति, श्वण्ठयति / अथ डान्तः // '302 दण्डण दण्डनिपातने ' / दण्डयति / दण्डादेन म्नो णिचि दण्डयत्यादिसिद्धौ दण्डणप्रभृतीनां पाठो यथाभिधानं णिचं विनाऽपि प्रयोगार्थः / अत एवाऽदन्तत्वमप्यनेकस्वरकाथं फलवत् // / अथ णान्ता अष्टौ // '303 व्रणण गात्रविचूर्णने ' / व्रणयति / डे अवव्रणत् / अचि व्रणः / व्रण शन्दे [ 1262 ], व्रणति / णिगि वाणयति // 304 वर्णण वर्णक्रियाविस्तारगुणवचनेषु' / वर्णक्रिया वर्णनं वर्णकरणं वा / कथां वर्णयति, सुवर्ण वर्णयति / विस्तारे वर्णनेयम् / गुणवचनं स्तुतिः शुक्लाधुक्तिर्वा, राजानम् उपवर्णयति / " नाम्नि पुंसि च" 5 / 3 / 121 इति णके वर्णकः // '305 पर्णण हरितभावे' / पर्णयति / अचि पर्णम् // '306 कर्णण भेदे ' / कर्णयति, आकर्णयति // : '307 तूणण संकोचने ' / वितणयति मुखम् / डे व्यतुतूणत् / चूण तूणण संकोचने [ 9 / 74, 75 ], असमानलोपित्वाद् "उपान्त्यस्या० " 4 / 2 / 35 इति इस्वे अतूतुणत् // '308 गणण संख्याने' / गणयति / जे “२ई च गणः " 4 / 167 इति पूर्वस्याऽत्वे ईति च अजगणत् , अजीगणत् / णके गणक: / "कर्मजा तृचा च" 3 / 1183 इति प्रतिषिद्धोऽपि " पत्तिस्थौ०" 3.1179 इति षष्ठीसमासः, पत्तिगणकः, स्थगणक: / स्त्रियामापि गणयति धनागममिति गणिका / अलि गणः / "णिवेत्ति०" 53 / 111 इत्यने गणना // 1. असम्यग्भाषणे इति क्षीर० (क्षी त. पृ. 311) // 2. °ईच्च ग इति मु० //