________________ 315 ] धातुपारायणे चुरादयः (9) [ 343 '309 कुण 310 गुण 311 केतण आमन्त्रणे, आमन्त्रणं गूढोक्तिः; कुणयति, गुणयति / डे अचुकुणत् , अजुगुणत् / कुणत् शब्दोपकरणयोः [5 / 52 ], कुणति / णिगि डे अचूकुणत् // अथ तान्तास्त्रयः // 311 केतण' / केतयति, संकेतयति / डे अचिकेतत् , क्ते केतितः / क्त्वो यपि संकेत्य / अयं निश्रावणनिमन्त्रणयोरपीत्येके' // 312 पतण गतौ वा ' / वाशब्दो णिजदन्तत्वयोः युगपद्विकल्पार्थः, पतयति / डे अपपतत् / " शीश्रद्धा० " 5 / 2 / 37 इति आलौ " आमन्ता०" 4 / 3 / 85 इति शेरयि पतनशीलः, पतयालुः, पक्षे पतति / “व्यअनादेः०" 4 / 3 / 78 इति वा वृद्धौ अपातीत् , अपतीत् / पत्ल गतौ [ 11962 ], पतति, अपप्तत् // ____313 वातण गतिसुखसेवनयोः'। सुखसेवनयोः इत्येके / वातयति, डे अववातत् / नायं वातः किन्तु वा इत्येके, वापयति, निर्वाप्य गतः / वांक गतिगन्धनयोः [25], वाति // अथ थान्तौ // '314 कथण वाक्यप्रबन्धे' / वाक्यप्रतिबन्धे इत्यन्ये / प्रतिबन्धो विच्छेदोदीरणात् / वदने इत्यपरे / कथयति / डे अचकथत् / णके कथकः / " भीषिभूषि०" 5 / 3 / 109 इत्यङि कथा / " नाम्नि० " 5 / 3 / 130 इत्याधारे घे आगत्य कथ्यतेऽस्मिन्निति आस्कथः, वर्चस्कादित्वात् / सोऽन्तः / क्त्वो यपि " लघो:०" 4 / 3 / 86 इति णेरयि संकथय्य / कथम् अचीकथत् ? 'भूरिदाक्षिण्यसंपन्नं, यवं सान्त्वमचीकथः ' [ ] इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्यापि पूर्वस्य ईत्वमिच्छन्ति, तन्मते भविष्यति, प्रकृत्यन्तरं वाऽन्वेष्यम् // '315 अथण दौर्बल्ये' / श्रथयति / ऋफिडादित्वाल्लत्वे श्लथयति / डे अशश्लथत् / श्रथण प्रतिहर्षे [ 9 / 85 ], श्राथयति / श्रथण बन्धने च [9 / 396 ], " युजादेः " 3 / 4 / 18 इति का णिचि श्राथयति, श्रथयति / श्रथुङ शैथिल्ये [ 1717 ], श्रन्थते // 1. विश्रामणाऽऽमन्त्रणयोरिति क्षीर० (क्षी. त. पृ. 316) //