________________ 340 आचार्यश्रीहेमचन्द्रविरचिते [ था० 281 तत्र कान्तौ // '281 अङ्कण लक्षणे' / अङ्कयति / सनि " स्वरादे:०" 4 / 1 / 4 इति केद्वित्वे अश्चिकयिषति / अनदन्त एवायमित्येके / अकुङ् लक्षणे [ 11610 ], अङ्कते // .. ' 282 ब्लेष्कण् दर्शने' / ब्लेष्कयति / णिजभावेऽप्यदन्तत्वार्थोऽस्य पाठः, तेनानेकस्वराद् यङ् न भवति / एवं मूत्रि-रूक्षि-गविप्रभृतीनां पाठे प्रयोजनमुन्नेयम् ; अनदन्ता एवैते इत्येके // . अथ खान्तौ // * 283 सुख 284 दु:खण तक्रियायाम् ' / सुखनं दुःखनं च तक्रिया; सुखयति, असुसुखत् / अचि सुखम् / दुःखयति / अचि दुःखम् // .. __ अथ गान्तः // ' 285 अङ्गण् पदलक्षणयोः' / अङ्गयति / सनि अअिगयिषति / अस्यापि पूर्वाचार्यानुरोधेनाऽदन्तेषु पाठः // .. - अथ घान्तः // '286 अघण पापकरणे' / अघयति / सनि अजिघयिषति // . अथ चान्तौ // '287 रचण प्रतियत्ने' / रचयति, रचयांचकार, अररचत् / “णिवेत्ति." 5 / 3 / 111 इत्यने रचना // 288 सूचण पैशून्ये ' / सूचयति / अपोपदेशत्वात् षत्वाभावे असुसूचत् / " अट्यति० " 3 / 4 / 10 इति यङि सोच्यते / 'स्मिप्रभृतिभिः साहचर्याद् एकस्वराणामेव हि पोपदेशस्मृतिः अत एव सूत्र-सत्र-संग्राम-साम-समाज-स्थूल-स्तनस्तेन-स्तोम-सुखानामषोपदेशत्वात् सोसून्यते, सिसत्रयिषते इत्यादौ न षत्वम् / णके सूचकः / अचि सूचः / गौरादित्वाद् याम् सूचयति सूत्रमार्गमिति सूची / " नाम्नि पुसि च" 5 / 3 / 121 इति णके भीरुष्ठानादित्वात् षत्वे विचिका / उणादौ " रुक्मग्रीष्म० " ( उ० 346) इति मे निपातनात् सूक्ष्मः / “पुत्रादयः" (उ० 455) इति त्रे निपातनात् सूत्रम् / " स्वरेभ्य०" (उ० 605) इत्यो सूचिः॥ 1. तुलना:-क्षीरतरङ्गिणी ( पृ. 314 ) //