________________ 280 ] धातुपारायणे चुरादयः (9) '277 दंशिण् दशने' / दंशयते / “णिवेत्ति०" 5 / 3 / 111 इत्यने दशना / अनटि दंशनम् / दशुण भासार्थः [ 9 / 225 ], दंशयति / दंशं दशने [11496 ], दशति / दाशिण दाने इत्यप्येके, दाशयते / दाशृग् दाने [11922 ], दाशते, दाशति // अथ सान्तौ // * 278 दंसिण् दर्शने च'। चकाराद् दशने / दसयते / ते दंसितः / पृषोदरादित्वात् टे नस्यात्वे च दासी / दसुण भासार्थः [ 9 / 230 ], दंसयति, अन्यत्र दंसति // ___ '279 भत्मिण संतर्जने' / भर्सयते / “णिवेत्ति० " 5 / 3 / 111 इत्यने भर्त्सना // अथ क्षान्तः // '280 यक्षिण पूजायाम् ' / यक्षयते / अलि यक्षः / उणादौ " सात्मन्" ( उ० 916) इति मनि यक्ष्मा रोगः // आत्मनेभाषाः // इतोदन्ताः // इत उच्च युजादेः प्रागदन्तत्वं धातूनां विधीयते, ततश्च " अतः” 4 / 3 / 82 इत्यल्लुकः स्थानित्वाद् गुणवृद्ध्योः समानलोपित्वाच्च सन्वद्भावदीर्घोपान्त्यहस्वानामभावः, यथा सुखयति, रचयति; अत्र " अतः" 4 / 3 / 82 इत्यल्लुकः स्वरादेशत्वेन पूर्वविधि प्रति स्थानित्वाद् गुणवृद्धथभावः / अररचत् , असुसुखत् ; अत्र समानलोपित्वाद् "असमानलोपे०" 4 / 1 / 63 इति पूर्वस्य सन्वद्भावः, " लघोर्दी!." 4 / 164 इति दीर्घश्च न भवति / असुसूचत् , अनोपान्त्यहूस्वाभावः / __ अकादीनां तु उक्तफलाभावेऽपि पूर्वाचार्यानुरोधेनादन्तेषु पाठः / णिजभावेऽनेकस्वरत्वाद् यनिवृत्यर्थ इत्येके / द्रमिलास्तु एवंप्रकाराणामत्वविधानसामर्थ्याद् अल्लोपाभावं मन्यन्ते, ततश्च "णिति" 4350 इति वृद्धौ प्वागमे च दुःखापयति, लापयति, वण्टापयति, रंहापयति, अर्थापयते सत्रापयते, गर्वापयते इत्युदाहरन्ति / ते हि " णिति" 4350 इति वृद्धि स्वरमावस्येच्छन्ति //