________________ 338 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 272 अथ रान्तास्त्रयः // ' 272 गृरिण उद्यमे' / गुरयते, उद्गॅरयते खड्गम् / “णिवेत्ति०" 5 / 3 / 111 इत्यने गूरणा, आगूरणा / गूरैचि गतौ [ 3 / 129 ], गूर्यते // _ '273 तन्त्रिण कुटुम्बधारणे' / कुटुम्बं परिवारः / उपलक्षणं चैतत् / तन्त्रयते, तन्त्रयांचक्रे / अचि अलि वा तन्त्रम् / कर्मणोऽणि स्वतन्त्रः / उणादौ " पदिपठि०" ( उ० 607) इत्यौ तन्त्रिः वीणास्त्रम् / " तृस्तृतन्द्रि०" ( उ० 711) इति ईः, तन्त्रीः शुष्कस्नायुः आलस्यं च / कुटुम्ब इत्यपि धातुरिति चान्द्राः, कुटुम्बयते // 274 मन्त्रिण गुप्तभाषणे' / मन्त्रयते / " ग्रहादिभ्यो." 5 / 53 इति णिनि मन्त्री / अलि मन्त्रः / उणादौ “पदिपठि०" (उ० 607) इत्यौ मन्त्रिः सचिवः // अथ लान्तः // ___ '275 ललिण ईप्सायाम् ' / लालयते / अचि लालः, कुत्सितो लालः कुलाल:, कर्मणोऽणि कुं लालयते कुलालः / “णिवेत्ति" 5 / 3 / 111 इत्यने लालना / णिचोऽनित्यत्वाद् " इङितो." 5 / 2 / 44 इत्यने लालनाशीला ललना / क्ते ललितः / लाला इति तु " भिल्लाच्छमल्ल." (उ० 464 ) इति निपातनाद् ले लातेः / लड विलासे | 11254 ], ऋफिडादित्वाद् डस्य लत्वे ललति / णिगि जिह्वोन्मन्थने घटादित्वाद् इस्वे ललयति श्वा जिह्वाम् / 'गलिण स्रावणे इत्यप्येके, गालयते, उद्गालयते / गल अदने [ 11452 ], गलति // अथ शान्तौ // ' 276 स्पशिण ग्रहणश्लेषणयोः' / स्पाशयते / डे " स्मृदृत्वर० " 4 / 1 / 65 इति सन्वद्भावापवादे पूर्वस्याऽन्वे अपस्पशत् / " णौ दान्तशान्त" 4 / 4 / 74 इति क्ते वा निपातनात् स्पष्टः, स्पाशितः / पपी बाधनस्पर्शनयोः [11926 ], अयं स्पशीत्येके'; स्पशते, स्पशति / " व्यञ्जनाद् " [5 / 3 / 132] पनि स्पाशः // 1 मुद्रिते चान्द्रधातुपाठे 'तत्रि कुटुम्बधारणे' इत्येवमेकधातुरूपं सूत्रं पठ्यते, स चापपाठः / (क्षी. त. टि. पृ. 293) / तुलना:-क्षी. त. (पृ. 293 ) // * 2. क्षीरस्वाभी, (क्षी. त. पृ. 295, पृ. 127 ) //