________________ 271 ] धातुपारायणे चुरादयः (9) [ 337 स्यामयते / स्यम् शब्दे [ 11387 ], स्यमति / णिगि " अमो०" 4 / 2 / 26 इति हस्वे स्यमयति // ' 270 शमिण आलोचने'। शामयते, विशामयते / “णो दान्त० " 4 / 4 / 74 इति क्ते वा निपातनात् शान्तः, पक्षे " सेटूक्तयोः " 4 / 3 / 84 इति णेलुक, शामितः / शमूच उपशमे [ 387 ], शाम्यति / णिगि “शमोऽदर्शने " 4 / 2 / 28 इति इस्वे शमयति रोगम् // ___ '271 'कुस्मिण कुस्मयने' / मतिदृष्टे बुद्धयुत्प्रेक्षितेऽर्थे इत्यन्ये / कुत्सितं स्मयनम् , कुस्मयनम् / कुस्मयते, प्रकुस्मयते, आकुस्मयते / क्ये कुस्म्यते / " धातोरनेकस्वरा०" 3446 इत्यामि कुस्मयांचक्रे / डे अचुकुस्मत / सनि चुकुस्मयिषते / कुस्मयिता, कुस्मयितव्यम् / विपि णिलुको “न सन्धि०" 7 / 4 / 111 इति स्थानित्वप्रतिषेधस्य स्कोर्लुक्य भावात् स्थानित्वे " संयोगस्यादौ०" 2 / 1188 इति सस्य लुगभावे, संयोगान्तलोपे तु णिलुको “न सन्धि० " 74 / 111 इति स्थानित्वप्रतिषेधात् " पदस्य " 2 / 1189 इति मस्य लुकि सुकूः साधुकूः / " णिवेत्ति०" 5 / 3 / 111 इत्यने कुस्मना / कुस्मयित्वा, प्रकुस्म्य // ___कुपूर्वेण स्मिडैव कुस्मयते इति प्रयोगसिद्धेयर्थोऽयमिति चेत् , नैवम् , अनिष्टापत्तेः तथा हि, / “गतिक्वन्य०" 331142 इति समासस्य नाम्नैव सह विधानात् तिवाद्यन्तेन सहाभावे “प्रथमोक्तं प्राक् " 3 / 1 / 148 इति प्राक्त्वानियम इति स्मयतेकु इत्यपि स्यात् , उपसर्गस्य च धातोः प्राक्त्वनियमात् कुप्रस्मयते / अडागमस्य च धात्वादित्वात् कोरग्रतः पाते क्वस्मयत / क्ये " दीर्घश्चि० " 4 / 3 / 108 इति दीर्घ कुस्मीयते / एकस्वरत्वाच्च परोक्षाया आमभावे कुसिष्मिये / अद्यतन्यां सिचि क्वस्मेष्ट / सनि " ऋस्मि०" 4 / 4 / 48 इतीटि “णिस्तोरेवा." 2 / 3 / 37 इति नियमात् षत्वाभावे कुसिस्मयिषते / तृचि तव्ये चानुस्वारेच्चादिडभावे कुस्मता, कुस्मतव्यम् / विपि " इस्वस्य तः०" 4 / 4 / 113 इति तेऽन्ते कुस्मित् / " स्त्रियां०" 5 / 3 / 91 भावाकोंः क्तौ कुस्मितिः। क्त्वि कुस्मित्य-कुप्रस्मित्येत्यादीनि रूपाणि स्मिङः प्राप्नुवन्ति / अथ कथं कुस्मति इति ? कुपूर्वात् स्मयतेः "क्वचित् " 5 / 1 / 171 इति डे कुस्म इवाचरतीति क्विपि क्रियार्थत्वाद् धातुत्वे "शेषात्" 3 / 3 / 100 इति परस्मैपदे भविष्यति / कुस्मनाम्नस्तु णिवाहुलकानेष्यते // 1. तुलनार्थ विशेषार्थ च द्रष्टव्या क्षी. त. (पृ. 297 ) //