________________ 328] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 185 अथ वान्तः // 185 दिवण अर्दने' / देवयति शत्रून् / परिदेवयति, अतिदेवयति / अतिपूर्वादेव णिच् इत्येके / अर्थान्तरे तु दिवच् क्रीडादौ [ 31 ], दीव्यति // अथ शान्तः // * 186 पश 187 पषण बन्धने' / पाशयति पाशैः अश्वम् // ____अथ षान्ताश्चत्वारः // 187 पषण' / पाषयति पाशैः अश्वम् / दन्त्यान्त्योऽयमित्येके / अर्थान्तरे तु पषी बाधनस्पर्शनयोः इति मूर्धन्यान्तः, तालव्यान्तो, दन्त्यान्त्यश्च आचार्यभेदेन; पशते पशति, पषते पपति, पसते पसति // 188 पुषण धारणे' / पोषयति आभरणम् , धारयतीत्यर्थः / अर्थान्तरे तु पुष पुष्टौ [ 11536 ], पोषति / पुपंच पुष्टौ [ 3 / 32 ], पुष्यति / पुषश् पुष्टौ [857 ], पुष्णाति // 189 घुषण विशब्दने' / विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा; घोषयति, उद्घोषयति / अविशब्दने इन्येके; अपघोषयति, पापम् अपहनुते इत्यर्थः / ऋदित्करणं चुरादिणिचोऽनित्यत्वे लिङ्गम् , तेन " ऋदिच्छ्वि० " 3 / 4 / 45 इति इति वाऽङ्गि अघुषत् ; पक्षे अघोषीत् / घोषति / 'जुघुषुः पुष्पमाणवाः' [ पातञ्जल महाभाष्य, 7 / 2 / 23] इति विशब्दनेऽपि भवन्ति / नायम् ऋदिदिति कौशिकः / अर्थान्तरे तु घुष शब्दे [ 11497 ], घोषति / आङः क्रन्दे, क्रन्दः सातत्ये इत्यन्ये / आङः परो घुषिः क्रन्देऽर्थे चुरादिः भवति, आघोषयति / “णिवेत्ति" 5 / 3 / 111 इत्यने आघोषणा / अन्ये तु आङः क्रन्दः सातत्ये इति पठन्ति / आङः परात् क्रन्देः सातत्येऽर्थे णिज् भवति; आक्रन्दयति नित्यम् , अन्यत्र आक्रन्दति / / * 190 भूष 191 तसुण् अलङ्कारे' / भूषयति कन्याम् , भूष अलङ्कारे [ 11537 ], भूषति // ___ अथ सान्ताः सप्त // * 191 तसुण' / उदिच्चान्ने तंसयति / " पुनाम्नि०" 5 / 3 / 130 इति करणे घे अवतंसः / तसु अलङ्कारे [ 11538 ], तंसति //