________________ 184 ] धातुपारायणे चुरादयः (9) [ 327 ऋति अशीशृधत् , अशशर्धत् / अर्थान्तरे तु शृङ् शब्दकुत्सायाम् [1958 ], शर्धते / शृधूग उन्दे [11910 ], शर्धते, शर्धति // अथ पान्तः // 179 कृपण अवकल्कने' / अवकल्कन मिश्रीकरणं सामर्थ्य च / कल्पयति / अवकल्पने इत्यन्ये, कल्पयति वृत्ति राजा / चन्द्रस्तु भूतपो द्वावपि अवकल्कने चिन्तने इति व्याख्यत् ; संभावयति, अवकल्पयति / अर्थान्तरे तु कृपौङ सामर्थ्य [11959 ], कल्पते // अथ भान्तः // 180 जभुण नाशने' / उदित्वान्ने जम्भयति / क्ये जम्भ्यते / जभण् इति चन्द्रः / “जभः स्वरे" 4 / 4 / 100 इति स्वरात्परे ने जम्भयति / अर्थान्तरे तु जभुङ् गात्रविनामे [ 11782 ] जम्भते // अथ मान्तः // 181 अमण रोगे'। " अमो कम्यमि०" 4 / 2 / 26 इत्यत्र अमो वर्जना "यमोऽपरिवेषणे०" 4 / 2 / 29 इत्यत्र णिचो नियमार्थत्वाद् वा हस्वाभावे "रुजार्थस्या०" 2 / 2 / 13 इति. वा कर्मणः कर्मत्वे शेषषष्ठ्याम् आमयति चौरस्य ज्वरः / अलि आमः / उणादौ " कुगुवलि." (उ० 365) इत्यये आमयो रोगः / ." श्वन्मातरिश्वन्' ' ( उ० 902) इत्यनि निपातनाद् अरीन् आमयति इति अर्यमा रविः / अर्थान्तरे तु अम गतौ [ 11392 ], अमति / घजि अमः // ___ अथ रान्तौ // 182 चरण असंशये' विचारयत्यर्थान् / “णिवेत्ति" 5 / 3 / 111 इत्यने विचारणा / अन्ये तु चरण संशये इति पठन्ति / विचारणा हि संशये सति भवति इति चाहुः / अर्थान्तरे तु चर भक्षणे च [ 11410 ], चरति // * 183 पूरण आप्यायने ' / पूरयति / अर्थान्तरे तु पूरैचि आप्यायने [ 33125], पूर्यते // अथ लान्तः // 184 दलण विदारणे'। दालयति, दाग्यतीत्यर्थः / अर्थान्तरे तु दल त्रिफला विशरणे [ 11413-414 ], दलति / गिगि घटादित्वाद् हस्वे दलयतीत्येके /