________________ 326 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 172 उपसर्गादित्येकः, शब्द इत्ययं घातुरुपसर्गात्परः चुरादिः; प्रशब्दयति, विशब्दयति / भाषाऽऽविष्कारयोः इत्यपरः, अनुपसर्गार्थोयमारम्भः / पूर्वस्तु भाषणाऽऽविष्कारार्थः; शब्दयति, विशब्दयति / अन्यस्तु शब्द शब्दक्रियायामित्यधीते; शब्दयति / 'भषणस्यापि शब्द विशेषक्रियारूपत्वादत्रैवान्तर्भावः, ततः उपसर्गादाविष्कारे इति पठित्वा प्रशब्दयति, विशब्दयति इत्याविष्कारमात्रे उदाहरन्ति / / 173 दण् आस्रवणे' / क्षरणे इत्येके / " षः सो." 2 / 3 / 98 इति से सूदयति / षोपदेशत्वात् " णिस्तोरेवा० " 2 / 3 / 37 इति षत्वे सुदयिषति / अनटि निमूदनम् / अर्थान्तरे तु धूदि क्षरणे [ 11736 ], सूदते / “नाम्युपान्त्य." 5 / 1 / 54 इति के सूदः / / '174 आङः क्रन्दण सातत्ये' / आङ: पर: क्रन्द इत्ययं धातुः सातत्येऽर्थे चुरादिः; आक्रन्दयति / अलि आक्रन्दः / अर्थान्तरे तु ऋदु रोदनाऽऽह्वानयोः [ 1 / 316 ], आक्रन्दति // 175 वदण आस्वादने' / संवरणे इत्यन्ये / “पः सो०" 2 / 3 / 98 इति से स्वादयति / षोपदेशत्वाद् " नाम्यन्तस्था० " 2 / 3 / 15 इति षत्वे असिष्वदत् / अर्थान्तरे तु ष्वदि आस्वादने [ 11729 ], मैत्राय स्वदते दधि // * 176 आस्वदः सकर्मकात् ' / आपूर्वात् स्वदतेः सकर्मकात् णिज् भवति, आस्वादयति यवागूम् / अन्ये तु ग्रसण ग्रहणे [9 / 196], पुषण धारणे [9 / 188], दलण विदारणे [ 9 / 184], लोक तर्केति भाषार्थदण्डकः, पूरण आप्यायने [9 / 183], स्वदण संवरणे इति क्रमेण पठित्वा व्याख्यान्ति; ग्रसिमारभ्य आस्वदः स्वदमभिवाप्य यो धातुः पठितस्तस्मात् सकर्मकक्रियावचनादेव णिज् भवति / ततोऽकर्मकेभ्यो णिचो व्यावृत्तिः // - 177 मुदण् संसर्गे' / मोदयति सक्तून् सर्पिषा / मोदयति उष्णा अप: शीताभिरद्भिः / उभयत्र संसृजतीत्यर्थः / " नाम्नि पुंसि च" 5 / 3 / 121 इति णके मोदकः / अर्थान्तरे तु मुदि हर्षे [ 11726 ], मोदते // अथ धान्तः // 178 शधण प्रसहने' / प्रसहनम् अभिमवः / अप्रसहने इत्येके / अप्रसहनम् अमर्षः / शर्धयति अरिम् / डे " ऋदृवर्णस्य " 4 / 2 / 37 इति गुणापवादे ऋतो वा 1. भाष इति मु० पा० //