________________ 172 ] धातुपारायणे चुरादयः (9) [ 325 '169 घटण संघाते' / घाटयति / अनटि उद्घाटनम् / उद्घाटितः कपाट: / अर्थान्तरे तु घटिषु चेष्टायाम् [ 111000 ], घटते / घटादित्वाद् इस्वे घटयति / 'हन्त्यर्थाश्च; येऽन्यत्र हन्त्यर्था हिंसाः पठ्यन्ते, तेऽप्यत्र चुरादौ वेदितव्याः' / हनं हिंसागत्योः [2 / 42 ], घातयति / हिंसु वृहप हिंसायाम् [6 / 22, 23], हिंसयति, तर्हयति / तत्तद्गणपाठ-सामर्थ्यात्त हन्ति, हिनस्ति, तृणेढि इत्यादयोऽपि / अनेनैव च सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठः आत्मनेपदादिगतरूपभेदार्थः // . अन्ये तु चटास्फुटौ घट च हन्त्यर्था इत्याचं पाठं मन्यन्ते; अस्यार्थः -चट इत्ययं धातुः, आपूर्वश्च स्फुट इति, घट इत्ययं च त्रयोऽप्येते हन्त्यर्था हिंसाः सन्तश्चुरादौ भवन्ति; चाटयति, आस्फोटयति, घाटयति, हन्ति इत्यर्थः / अर्थान्तरे तु न चुरादित्वम् ; चटति, आस्फुटति, घटते / अपरे त्वन्यथा व्याचक्षते; चटास्फुटौ आस्फुटत्यर्थे चुरादिः, चाटयति / घट च; अयं च आस्फुटत्यर्थे चुरादिः, घाटयति / अन्यत्र चटति, घटते // अथ णान्तः // 170 कणण निमीलने' / काणयति चक्षुः, अचि काणः / अर्थान्तरे तु कण शब्दे [ 11270 ], कणति / गतौ घटादित्वाद् णिगि ह्रस्वे कणयति // अथ तान्तः // "171 यतण निकारोपस्कारयोः' / निकारः खेदनम् , यातयति अरिम् / " णिवेत्ति०" 5 / 3 / 111 इत्यने यातना तीव्रव्यथा / उपस्कारे यातयति दरिद्रो नागरस्य धनम् / यातयति 'छिद्रं राजा, प्रच्छादयतीत्यर्थः / प्रतियातयति, प्रतिबिम्बयतीत्यर्थः / अर्थान्तरे तु यतैङ् प्रयत्ने [ 11711 ], यतते / निरश्च प्रतिदाने, निरः परो यतिः प्रतिदानेऽर्थे चुरादिः, निर्यातयति, ऋणम् शोधयतीत्यर्थः // अथ दान्ताः षट् // ' 172 शब्दण उपसर्गाद् भाषाऽऽविष्कारयोः' / भाषो भाषणम् / भाषे आविष्कारे चार्थे शब्द इत्ययं धातुरुपसर्गात्परः चुरादिः, विशब्दयति, प्रशब्दयति / प्रतिशब्दयति, प्रतिश्रुत्कामाऽऽविष्करोतीत्यर्थः / योगविभागोऽत्र इति नन्दी / शब्द . 1. च्छिद्रं इति मु० //