________________ 324 ] आचार्यश्रीहेमचन्द्रविरचिते [ पा० 160 ___ 160 लग' / लागयति / अन्यत्र रगे शङ्कायाम् [1 / 1023 ], रगति / लगे सङ्गे [ 1 / 1024 ], लगति / णिगि " घटादे:०" 4 / 2 / 24' इति इस्वे रगयति, लगयति // 161 लिगुण चित्रीकरणे' / उदित्वाने लिङ्गयति शब्दम् ; स्त्रीपुनपुंसकलिङ्गैश्चित्रीकरोतीत्यर्थः / उल्लिङ्गयति / अचि लिङ्गम् / अन्यत्र लिगु गतौ [ 190 ], लिङ्गति, आलिङ्गति // - अथ चान्तास्त्रयः // 162 चर्चण अध्ययने' / चर्चयति शास्त्रम् / " भीषिभूषि०" 5 / 3 / 109 इत्यङि चर्चा / अन्यत्र चर्चत् परिभाषणे इति केचित् ; चर्चति // __ 163 अञ्चण् विशेषणे' / विशेषणम् अतिशयः / अश्चयति अर्थम् , व्यक्तीकरोतीत्यर्थः / अन्यत्र अञ्चू गतौ च [ 11890 ], अश्चति // 164 मुचण् प्रमोचने' / मोचयति शरान् / प्रयोजने इत्यन्ये, मोचयति कुण्डले प्रयोजयतीत्यर्थः / अन्यत्र मुचि कल्कने इत्येके, मोचते / मुच्छंती मोक्षणे [ 5 / 6 ], मुश्चते, मुश्चति // अथ जान्तौ // '165 अर्जण प्रतियत्ने' / प्रतियत्नः संस्कारः / अर्जयति, हिरण्यं निवेशयतीत्यर्थः / डे आजिजत् / अन्यत्र तु अर्ज सर्ज अर्जने [ 13142, 1 / 143 ], अर्जति // 166 भजण् विश्राणने' / विश्राणनं विपचनम् / भाजयति, विभाजयति / अचि अलि वा भाजः / स्त्रियां " भाजगोण." 24 / 30 इति ङ्याम् भाजी पक्वा चेद् , भाजा अन्या / अन्यत्र तु भजी सेवायाम् [ 11895 ], भजते, भजति // ____अथ टान्तास्त्रयः // 167 चट 168 स्फुटण भेदे' / चाटयति / अनटि उच्चाटनम् / णिचोऽनित्वात् चटति, विचटति / उणादौ " दृकुन 0 " ( उ० 27 ) इति अके चटका / स्फोटयति, आस्फोटयाञ्चकार / अर्थान्तरे तु स्फुट विसरणे [11209], स्फोटति / स्फुटि विकसने [ 16669], स्फोटते / स्फुटत् विकसने [ 51126 ], स्फुटति //