________________ 159 ] धातुपारायणे चुरादयः (9) [ 323 'इतोऽर्थविशेषे आलक्षिणः' / इतः परम् अर्थविशेषे चुरादयो लक्षिणपर्यन्ताः प्रस्तूयन्ते, तत्राऽऽदौ आदन्त: '153 ज्ञाण मारणादिनियोजनेषु' / मारणादयो "मारण-तोषण-निशाने ज्ञश्च" 4 / 2 / 30 इति सूत्रोक्ताः, तेषु नियोजने चार्थे / जानातिश्चुरादिः / मारणे " मारण" 4 / 2 / 30 इति हस्ते संज्ञपयति पशुम् , तोषणे विज्ञपयति गुरुम् / आज्ञपयति, आज्ञपितः / सनि “इवृध०" 4 / 4 / 47 इति वेट , जिज्ञपयिषति पक्षे "ज्ञप्याप०" 4 / 1 / 16 इति ज्ञीपि द्वित्वाभावे च ज्ञीप्सति / निशाने प्रज्ञपयति शस्त्रम् / नियोजने आज्ञापयति भृत्यम् , ज्ञापितः, ज्ञापितवान् ; अत्र मारणाद्यर्थाभावात् ह्रस्वाभावः / उक्तेभ्योऽर्थेभ्योऽन्यत्र न चुरादिः, इति क्र्यादित्वात् नाः, आजानाति // अथ उदन्तः // 154 च्युण सहने ' / इसने इत्येके / च्यावयति शरान , सहते इत्यर्थः / अन्यत्र च्युङ् गतौ [11594 ], च्यवते // __ अथ ऊदन्तः // 155 भ्रूण अवकल्कने' / अवकल्कनं मिश्रीकरणम् / भावयति दनौदनम् / विकल्कने इति नन्दी; भावयेत् ब्राह्मणं तप: / अवकल्पने इत्यन्ये भावयति साधुः समयम् / भू सत्तायाम् [11], भवति / प्राप्तौ तु “भूङः०" 3 / 4 / 19 इति वा णिङि भावयते, पक्षे डिवाद् " इडितः" 3 / 3 / 22 इति आत्मनेपदे भवते // अथ कान्तास्त्रयः // '156 बुक्कण भषणे' / भाषणे इत्येके, आभाषणे इत्यन्ये / बुक्कयति श्वा चौरान् / भषणादन्यत्र बुक्क भाषणे [ 1154 ], बुक्कति // 157 रक 158 लक 159 रग 160 लगण आस्वादने'। राकयति, लाकयति / आसादने इत्यन्ये, आराकयति, आलाकयति धर्मम् // अथ गान्तास्त्रयः // . 159 रग / रागयति //