________________ 322 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 144 तथा च णिचोऽनित्यत्वात् चौरादिकेनैव पेसति इति प्रयोगसिद्धौ भ्वादौ पाठोऽस्याऽऽत्मनेपदार्थः, पेसते // * 146 जस' / “जासनाट० " 2 / 2 / 14 इति कर्मणो वा कर्मत्वे "शेषे" 2 / 2 / 81 इति षष्ठ्यां चौरस्य उजासयति / / अथ हान्तौ // -- 147 बर्हणू' / बर्हयति / वर्हि प्राधान्ये [ 11862 ], वहते // '148 णिहण स्नेहने' / “पः सो०" 2 / 3 / 98 इति से स्नेहयति / पोपदेशत्वाद् “णिस्तोरेवा० " 2 / 3 / 37 इति पत्वे सिष्णेहयिषति / णिहौच प्रीती [398 ], स्निह्यति // अथ क्षान्तास्त्रयः // -- 149 म्रक्षण म्लेच्छने' / अक्षयति / अनटि म्रक्षणम् / भ्वादौ म्रक्ष रोपे इत्येके, म्रक्षति // '150 भक्षण अदने'। भक्षयति / णिगि “भक्षेहिसायाम्" / / 6 इति अणिकर्तुः कर्मत्वे भक्षयति गौः यवान् , भक्षयति गां यवान् मैत्रः / अत्र यवानां प्रसवप्ररोहधर्मत्वेन चेतनत्वाद् भक्षणे प्राणवियोगलक्षणा हिंसा अस्त्येव / हिंसाया अन्यत्र “गतिबोधा" 22 / 5 इति प्राप्तमपि कर्मत्वं न भवतीति "हेतुकर्तृ० " 2 / 44 इति कर्तरि तृतीयायां भक्षयति पिण्डी शिशुना मैत्रः, " शीलिकामि०" 5 / 1 / 73 इति अणपवादे णे मांसभक्षा स्त्री। "युवर्ण०" 5 / 3 / 28 इत्यलि भक्षः // - 151 पक्षण परिग्रहे ' / पक्षयति / कर्मण्यणि पक्षः // अथोभयपदी क्षान्तः // * 152 लक्षीण दर्शनाङ्कनयोः' / अङ्कन चिह्नम् / ईदित्वाद् " ईगितः " 3 / 3 / 95 इति फलवकर्तर्यात्मनेपदे लक्षयते, फलवतोऽन्यत्र " शेषात् " 3 / 3 / 100 इति परस्मैपदे लक्षयति / “णिवेत्ति" 5 / 3 / 111 इति अने लक्षणा / " करणाधारे" 5 / 3 / 129 इत्यनटि लक्षणम् / उणादौ " तृकशृ० " (उ० 187) इत्यणे लक्षणम् / “लक्षेर्मोऽन्तश्च" ( उ० 715) इति ई:, लक्ष्मीः / लक्षिण आलोचने [ 9 / 249 ], अर्थविशेषे चुरादिः, लक्षयते //