________________ 144 ] धातुपारायणे चुरादयः (9) [ 321 अथ वान्तः // '135 सान्त्वण सामप्रयोगे' / सान्त्वयति / अपोपदेशत्वाद् “णिस्तोरेवा." 2 / 3 / 37 इति षत्वाभावे सिसान्त्वयिषति / पोपदेशोऽयमिति एके, सिपान्त्वयिषति / साम सान्त्वप्रयोगे इति चन्द्रः, सामयति / डे " उपान्त्यस्या०" 4 / 2 / 35 इति इस्वे असीसमत् / सामण सान्त्वने [ 9 / 329 ], अदन्तः, अससामत् / / अथ शान्तः // 136 धूशण कान्तीकरणे' / धृशयति / दन्त्यान्तोऽयमित्येके, धृसयति / " जठरक्रकर०" ( उ० 403 ) इत्यरे धूसरः / मूर्धन्याऽन्तोऽयमित्यन्ये, धूषयति / / .. . अथ षान्ताश्चत्वारः // -- 137 श्लिषण श्लेषणे' / श्लेषयति / श्लिष दाहे [ 11531 ], श्लेषति / श्लिपंच आलिङ्गने [ 3667 ], श्लिष्यति // ___--138 लूषण हिंसायाम् ' / लूषयति // - 139 रुषण रोपे' / रोषयति / रुष हिंसायाम् [ 11514 ], रोषति / रुषच रोषे [ 372 ] रुष्यति // ____140 प्युषण उत्सर्गे' / प्योषयति / णिचोऽनित्यत्वात् पुप्योष / प्युषच विभागे [ 3 / 73 ], प्युष्यति // अथ सान्ताः षट् // ___141 पसुण नासने ' / उदिवाने पंसयति / उणादौ "पंसे दीर्घश्च " ( उ० 718) इत्यो पांसुः / / 142 जसुण रक्षणे ' / उदित्चान्ने जसयति / दहण् इत्यप्येके, देहयति // 143 पुसण अभिमर्दने' / पुंसयति / क्ते उत्पुंसितम् / उणादौ " नमः पुंसेः" ( उ० 32) इत्यके नखादित्वाद् नोऽदभावे नपुंसकम् // ___144 बस 145 पिस 146 जस 147 वर्हण हिंसायाम् ' / बसयति / फेसपति / गतौ अयमित्येके, बलदाननिकेतनेष्वपीत्यन्ये / पिसृ गतौ [11546 ], पेसति / ऋदनुबन्धत्वाद् णौ डे ह्रस्वाभावे अपिपेसत् / एके त्वाहुः नायम् ऋदित् 41