________________ 320 ] आचार्यश्रीहेमचन्द्रविरचिते [धा० 125 भावे " नाम्युपान्त्य० " 5 / 1 / 54 इति के तुलः, आपि तुला / भिदायङि अपि तुला / तुलयति इति तुलशब्दाद् "णिज् बहुलं०" 3 / 4 / 42 इति णिचि रूपम् // '126 दुलण् उत्क्षेपे' / दोलयति / अचि स्त्रियामापि दोला / "सेटूक्तयोः" 4 / 3 / 84 इति णेलुकि दोलितः / " भीषिभूषि०" 5 / 3 / 109 इत्यङि दोला / उणादौ णिचोऽनित्यत्वादभावे " नाम्युपान्त्य 0 " ( उ० 609) इति किदिः, दुलिः कच्छपी / अन्दोलयतीति तु रूढेः, यथा प्रेढोलयति, वीजयति // '127 बुलण निमजने' / बोलयति, बोलितम् / अनटि बोलनम् / णिचोऽनित्यत्वाद् " नाम्युपान्त्य०" 51154 इति के बुलः // 128 मूलण गेहणे' / मूलयति, अचि मूलम् / उणादौ " स्वरेभ्य" ( उ० 606) इति इ., मूलि: / मुल इति नन्दी, मोलयति / णिचोऽनित्यत्वाद् " नाम्युपान्त्य० " 5 / 1 / 54 इति के मुलः / मूल प्रतिष्ठायाम् [11427], मूलति / / ___129 कल 130 किल 131 पिलण् क्षेपे' / कालयति गाः / अचि कालयति क्षिपति स्वेषु स्वेषु पर्यायान्तरेषु भावान् इति कालः / कलणू संख्यानगत्योः [9 / 342 ], अदन्तः, सङ्कलयति / अलि कलः / कलि शब्दसंख्यानयोः [ 11814 ], कलते // 130 किल' / केलयति / उणादौ " स्वरेभ्य० " ( उ० 606) इति इः, केलिः / किलत् चैत्यक्रीडनयोः [5 / 86 ], किलति // 131 पिलण' / पेलयति / अचि पेलम् / पेल्यन्ते वस्त्रादीनि अस्यामिति बाहुलकाद् अनडपवादः, “शंसिप्रत्ययात् " 5 / 3 / 105 इति अ, भिदादित्वाद् वाङि पेला / णिचोऽनित्यत्वात् पिल्यते // * 132 पलण रक्षणे' / पालयति / पाल इति चन्द्रः, पाली // . * 133 इलण् प्रेरणे' / एलयति / " उपसर्गस्यानिण' " 122 / 19 इति अवर्णलोपे प्रेलयति, परेलयति / डे ऐलिलत् , अचि एला / इलत् गतिस्वप्नक्षेपणेषु [5 / 87 ], इलति / / ___134 चलण भृतौ' चालयति / चल कम्पने [ 11972 ], चलति / कम्पने घटादित्वाद् हस्वे चलयति / चलत् विलसने [ 5 / 92], “अवर्णादश्नो०" 2 / 1 / 115 इति शतुर्वाऽन्ताऽऽदेशे चलती चलन्ती स्त्री कुले वा //