________________ 102 ] धातुपारायणे चुरादयः (9) [ 317 '90 मिदुण् स्नेहने' / उदित्वान्ने मिन्दयति / अचि मिन्दः कुष्ठी / टान्तोऽयमित्येके, मिण्टयति / नायमुदिदिति कौशिकः, मेदयति // 91 गुर्दण् निकेतने' / पूर्वनिकेतने इत्येके; पूर्वनिकेतनम् आयो निवासः / " भ्वादेः०" 2 / 1 / 63 इति दीर्घ, गूर्दयति / गुर्दि क्रीडायाम् [11734 ], गूर्दते // 92 छर्दण् वमने ' / छर्दयति / उणादौ "पदिपठि० " (उ० 607) इति इः, छर्दिः; सान्तस्तु “रुच्यचि० " ( उ० 989) इति इसि छ्णत्तेः / इह गर्दण् शब्दे इत्येके पेतुः, गर्दयति गर्दभः / भ्वादौ गर्दति / अयं गर्जे इत्यपरे // अथ धान्ताः पञ्च // * 93 बुधण् हिंसायाम् ' / उदिचान्ने बुन्धयति / ठान्तोऽयमित्यन्ये, बुण्ठयति / / '94 वर्धण छेदनपूरणयोः' / वर्धयति // '95 गर्धण् अभिकाङ्क्षायाम् ' / गर्धयति // '96 बन्ध 97 बधण् संयमने' / बन्धयति / बन्धंश् बन्धने [ 8 / 45], बध्नाति // '97 वधण्' / बाधयति / उ अबीबधत् / बधि बन्धने [11746], बीभत्सते / / अथ पान्ता अष्टौ // -- 98 छपुण् गतौ' / उदित्वान्ने छम्पयति // *99 क्षपुण क्षान्तौ' / उदित्चान्ने क्षम्पयति // 100 ष्ट्रपण समुच्छाये' / “पः सो० " 2 / 3 / 98 इति से स्तूपयति / पोपदेशत्वात् “णिस्तोरेवा० " 23 / 37 इति षे तुष्ट्रपयिषति / अोपदेशोऽयमित्यन्ये, तुस्तूपयिषति / स्तुपण इत्येके, स्तोपयति / ष्ट्रपच समुच्छाये [354 ], स्तूप्यति // * 101 डिपण क्षेपे ' / डेपयति / डिपिण संघाते [ 9 / 264 ], डेपयते // ... 102 रुपण व्यक्तायां वाचि' / ह्रापयति //