________________ 318 ] आचार्यश्रीहेमचन्द्रविरचिते [ धा० 103'103 डपु 104 डिपुण संघाते' / अभिमर्दने इत्येके / उदिवाने डम्पयति, डिम्पयति / भान्तावेतौ इत्यन्ये; डम्भयति, डिम्भयति / अचि डिम्भः // 105 शूर्पण माने' / तालव्यादिः / शूर्पयति / अचि "पुनाम्नि०" / 5 / 3 / 130 इति करणेऽधिकरणे वा घे शूर्पः // अथ बान्ता अष्टौ ___106 शुल्बण सर्जने च' / चकारान्माने / तालव्यादिः / शुल्बयति / अचि शुल्बम् // ___ 107 डबु 108 डिबुण क्षेपे'। उदित्वान्ने डम्बयति, विडम्बयति / उणादौ "जठर०" (उ० 403) इत्यरे आडम्बरः // ___ 108 डिबुण्' / उदित्त्वान्ने डिम्बयति / अचि डिम्बम् अशस्त्रकलहः / केचित्तु दभदभुदिभूनपि भान्तानिह अधीयते; दाभयति, दम्भयति, दिम्भयति // '109 सम्बण सम्बन्धे' / सम्बयति / षोपदेशोऽयमित्यन्ये / “णिस्तोरेवा." 2 / 3 / 37 इति षत्वे सिपम्बयिषति / तालव्यादिस्यमिति द्रमिलाः / शम्बयति शम्बलम् / साम्ब इत्येके, साम्बयति / अलि साम्बः // '110 कुबुण आच्छादने' / उदिचाने कुम्पयति / " भीषिभूषि०" 5 / 3 / 109 इत्यङि कुम्बा // '111 लुबु 112 तुबुण अर्दने ' / उदित्वान्ने लुम्बयति / उणादौ "स्वरेभ्य०" (उ० 606) इति इ:, लुम्बिः / / 112 तुबुण' / उदित्वाने तुम्बयति / अचि गौरादित्वाद् याम् तुम्बी / " तिकृतौ०" 5 / 1171 इति अके तुम्बकः / तुपुण् इत्यप्यन्ये, तुम्पयति / / 113 पुर्वण निकेतने' / " म्वादेर्नामिनो०" 2 / 1 / 63 इति दी पूर्वयति / अचि पूर्वः / पूर्व इत्यमरकोशे ओष्ठयान्तेषु पठितः, तत् प्रकृतित्वानुरोधाद् बान्तेष्वयमस्माभिरिहाधीतः / / अथ मान्तः // '114 यमण परिवेषणे' / अपरिवेषणे इत्यन्ये / यामयति अतिथींश्चन्द्रमसं वा / परिवेषणादन्यत्र " यमोऽपरिवेषणे गिचि च " 412 / 29 इति हुस्वे यमयति /